This page has been fully proofread once and needs a second look.

इयमेव 'अम्भः' इत्युच्यते । प्रव्रज्योपादानेनैव मोक्षो भविष्यति, कि
ध्यानादिनेति या तुष्टिः, सा उपादानाख्या । अस्था एव तान्त्रिकी संज्ञा
'सलिलम्' इत्यस्ति । कृतसंन्यासस्यापि कालेनैव भोक्षो भविष्यति,
अलमुद्वेगेनेति या तुष्टिः सा कालाख्या 'ग्रोघो मेघो' वोच्यते । एवं भाग्य देव
मोक्षो भविष्यति न मोक्षशास्त्रोक्त साधनैरित्येवं कुतर्के या तुष्टि:सा
भाग्याख्या 'वृष्टिरित्युच्यते ।

बाह्याश्च तुष्टयः पञ्च भवति । ता वाह्येयु शब्दादिपञ्चविषयेषु अर्जन-
रक्षणक्षय मोर्ग हिंसादिदोषदर्शन निमित्तकोपरमाज्जायन्ते । आसां क्रमशस्ता-
न्त्रिक्य: संज्ञाः–पारं, सुपारं, पारपारम्, अनुत्तमाम्भ: उत्तमाम्भ इति
सन्ति । एवं मिलिताः सर्वास्तुष्टयो नव भवन्ति । ( द्र० सां० त० को०
सां० का० ५० ) ।
 
तैजसः, तैजस्
राजसः ( अहङ्कारः ) ।
 
दिक्, दिक् श्
दिक् द्विविधा नित्या खण्डरूपा च । तत्र नित्या प्रकृतेर्गुणविशेष एव ।
खण्डरूपा तु तत्तदुपाधिसंयोगाद् आकाशादुत्पद्यते । ( द्र० सां० प्र० भा०
अ० २ सू० १२ ) ।
 
दृष्टः, दृष्ट
दृष्टोपायो दुःखविगमस्य । औषध सेवनमनोज्ञस्त्रीपानभोजनविलेपन-
वस्त्रालङ्कारादिसम्प्राप्तिनीतिशास्त्राभ्यासकुशलतानिरत्ययस्थानाध्यसनादि-
मणिमन्त्राद्युपयोगाः त्रिविधदुःख निवृत्तेर्दृष्टापायाः ।
 
दुःखनिवृत्तिरेव पुरुषार्थः, दुःखनिवृत्तिरेव पुरुषार्थ
यथा पुरुषस्य दुःखे बलवत्तरो द्वेषो न तथा सुखे
बलवत्तरोऽभिलाषोऽपितु तदपेक्षया दुर्बलः । तथा च सुखामिलापं
वाधित्वाऽपि दुःखद्वेषो दुःखनिवृत्तावेवेच्छां जनयतीति । सुखापेक्षया दुःखस्य
बाहुल्यादपि दुःखनिवृत्तिरेव पुरुषार्थ इति सिध्यति । ( द्र० सां० प्र० भा०
म० ६ सू० ६७ ) ।
 
देहचातुर्विध्यम् , देहचातुर्विध्य
देहाश्चतुर्विधाः – कर्मदेहः, उपमोगदेहः, उभयदेहः, विरक्त-
देहश्चेति । तत्र वीतरागाणां फलसंन्यासेन कर्मकरणात् कर्मदेहः ।