This page has been fully proofread once and needs a second look.

सांख्यकोशः
 
१७
 
जगत्सत्यत्वम् , जगत्सत्यत्व
लोके हि निद्रादिदोषदुष्टान्त:करणादिजन्यत्वेन स्वाप्नविषय-

शङ्खपीतिमादीनामसत्यत्वं दृष्टम् । महदादिप्रपञ्चकारणीभूतायाः प्रकृते-

हिरण्यगर्भस्य च बुद्धेरदुष्टत्वान् महदादिप्रपञ्चस्य नासत्यत्वम् ।
 

न च 'नेह नानास्ति किञ्चन' इत्यादिश्रुत्या बाधितत्वेन अविद्यादिरूपः

कश्चनानादिर्दोषः कल्पनीय इति वाच्यम् नेह नानेति श्रुतेः प्रकरणानु-

सारेण विभागादिप्रतिषेधकत्वात् न प्रपञ्चात्यन्ततुच्छतापरत्वमस्ति ।

अन्यथा स्वस्या अपि बाधापत्त्या स्वार्थासाधकत्वप्रसङ्गात् । न हि स्वप्नका-

लीनशब्दस्य बाधे तज्ज्ञापितार्थोऽपि न सन्दिह्यत इति । अतो नेहनानेति

श्रुतेः ब्रह्मविभक्तं किमपि नास्तीत्यर्थ: । सर्वं समाप्नोषि ततोऽसि सर्वं'

इति स्मृतिरपि एतमेवार्थं गमयति । 'न निरोधो न चोत्पत्तिर्न बद्धो न च

साधकः । न मुमुक्षुर्न वै मुक्त इत्येषा परमार्थता' इत्यादिश्रुतेः आत्माति-

रिक्तस्य कूटस्थनित्यतारूपांतिपरमार्थसत्ताविरहोऽर्थः । तथा आत्मनो

निरोधादिर्नास्तीत्येवार्थ: । अन्यथैतादृशज्ञानस्य मोक्षफलकत्वप्रतिपादन-

विरोधात् ( द्र० सां० प्र० भा० अ० ६ सू० ५२ ) ।

 
जन्म, जन्म
लिङ्गशरीरस्य स्थूलदेहसञ्चार एव जन्म ।

जीवः अन्तःकरणोपलक्षित आत्मा जीवः ।
 

 
जीवन्मुक्तः, जीवन्मुक्त
मध्यविवेकावस्थ एव जीवन्मुक्तो भवति । उक्तश्च–

पूर्वाभ्यासवलात कार्ये न लोको न च वैदिकः ।

अपुण्यपापः सर्वात्मा जीवन्मुक्तः स उच्यते ॥ इति ।
 

 
ज्ञानम् , ज्ञान
संख्या, विवेकज्ञानम् मुक्ति हेतुभूतम् ।

 
ज्ञानेन्द्रियाणि , ज्ञानेन्द्रिय
चक्षुःश्रोत्रत्वग्रसनघ्राणाख्यानि पञ्च ।
 

 
तुष्टिः- , तुष्टि
नवप्रकारा । तत्राध्यात्यिक्यश्चतस्रः तुष्टयः प्रकृत्युपादानकालभाग्य-

संज्ञका: : । तत्रापि विवेकसाक्षात्कारोऽपि प्रकृतिपरिणाम एवेत्यलं ध्याना-

भ्यासेनेत्येवं दृष्ट्या या ध्यानादिनिवृत्तौ तुष्टिः सा प्रकृत्याख्या तुष्टिः ।