This page has been fully proofread once and needs a second look.

सांख्यकोशः
 
रजः - , रजः
दुःखात्मकं, चलम् सत्त्वतमसोरुपष्टम्भकम् ( उत्तेजकम् ) अतएव

प्रवृत्तिकारकं भवति ।
 

 
तमः, तम
मोहात्मकं गुरु, आवरकञ्च भवति । अत एव नियामकमपि

सर्व वस्तूनां भवति ।
 

 
चक्रभ्रमणवत्-- ,चक्रभ्रमणवत्
यथा कुलालकमंनिवृत्तावपि पूर्वकर्मवेगात् स्वयमेव कियत्कालं

चक्रं भ्रमति, एवं ज्ञानोत्तरं कर्मानुत्पत्तावपि प्रारब्धकर्मवेगेन चेष्टमानं देहं

धृत्वा जीवन्मुक्तस्तिष्ठति । ( द्र० सां० प्र० मा० अ० ३ सु० ८२ ) ।

 
चातुर्भौतिकः -- , चातुर्भौतिक
आकाशस्यानारम्भकत्वमित्यभिप्रेत्याकाशं विना चतुर्णामेव भूतानां

परिणामो देह इति केचित् ।
 

 
चिच्छायापत्तिः, चिच्छायापत्ति
दर्पणे मुखप्रतिविम्ववत् बुद्धौ यश्चैतन्यप्रतिबिम्बः चैतन्य

दर्शनार्थं कल्प्यते, स एव चिच्छायापत्तिरिति, चंतन्याव्यास इति चिदावेश

इति चोच्यते । ( द्र० सां० प्र० भा० अ० १ सु० ९९ ) ।
 
चित्तम् –

 
चित्तम् , चित्त
बुद्धिमंहत्तत्त्वं वा ।
 
चिद्रपआत्मा- - आत्मा

 
चिद्रूपआत्मा , चिद्रूपआत्मन्
आत्मा चिद्रूप
एव न त्वानन्दचैतन्योभयरूप: । एकस्य धर्मिण

आनन्दचैतन्योभयरूपत्वाभावात् । दुःखज्ञानकाले सुखाननुभवेन ज्ञानसुखयो-

मँदात् । न च ज्ञानस्यैवावान्तरविशेषः सुखमिति वक्तुं शक्यम् आत्मस्वरूप-

ज्ञानस्याखण्डत्वात् । न च 'सत्यं विज्ञानमानन्दं ब्रह्म' इति श्रुत्विलादेबात्म-

नश्चिदानन्दोभयरूपत्वमस्तीति वाच्यम् 'नानन्दं न निरानन्दम्' इत्यादि-

श्रुत्या 'अदुःखमसुखं ब्रह्म भूतभव्यभवात्मकम्' इत्यादिस्मृत्या च आनन्दा-

भावस्यापि प्रतिपादितत्वेन तर्कस्यैवात्रादरणीयत्वात् । तर्कस्य चात्मनश्चि-

दानन्दोभयरूपत्वप्रतिरोधित्वात् । आनन्दरूपताश्रुतिश्च दुःखनिवृत्तिपरतया

गौणी । अतश्चिद्रूप एवात्मा ( द्र० सां० प्र० मा० अ० ५ सू०

६६-६७ ) ।
 

 
छिन्नहस्तवत् , छिन्नहस्तवत्
यथा छिन्नं हस्तं पुनः कोऽपि न गृह्णाति तथैव विवेकेन त्यक्तमिदं

देहेन्द्रियादिकं पुनर्नाभिमन्येत । ( सां० प्र० मा० अ० ४ सु० ७ ) ।