2023-03-12 05:50:37 by ambuda-bot
This page has not been fully proofread.
सांख्यकोशः
रजः - दुःखात्मकं, चलम् सत्त्वतमसोरुपष्टम्भकम् ( उत्तेजकम् ) अतएव
प्रवृत्तिकारकं भवति ।
तमः – मोहात्मकं गुरु, आवरकञ्च भवति । अत एव नियामकमपि
सर्व वस्तूनां भवति ।
चक्रभ्रमणवत्-- यथा कुलालकमंनिवृत्तावपि पूर्वकर्मवेगात् स्वयमेव कियत्कालं
चक्रं भ्रमति, एवं ज्ञानोत्तरं कर्मानुत्पत्तावपि प्रारब्धकर्मवेगेन चेष्टमानं देहं
धृत्वा जीवन्मुक्तस्तिष्ठति । ( द्र० सां० प्र० मा० अ० ३ सु० ८२ ) ।
चातुर्भौतिकः -- आकाशस्यानारम्भकत्वमित्यभिप्रेत्याकाशं विना चतुर्णामेव भूतानां
परिणामो देह इति केचित् ।
चिच्छायापत्तिः–दर्पणे मुखप्रतिविम्ववत् बुद्धौ यश्चैतन्यप्रतिबिम्बः चैतन्य
दर्शनार्थं कल्प्यते, स एव चिच्छायापत्तिरिति, चंतन्याव्यास इति चिदावेश
इति चोच्यते । ( द्र० सां० प्र० भा० अ० १ सु० ९९ ) ।
चित्तम् – बुद्धिमंहत्तत्त्वं वा ।
चिद्रपआत्मा- - आत्मा चिद्रूप एव न त्वानन्दचैतन्योभयरूप: । एकस्य धर्मिण
आनन्दचैतन्योभयरूपत्वाभावात् । दुःखज्ञानकाले सुखाननुभवेन ज्ञानसुखयो-
मँदात् । न च ज्ञानस्यैवावान्तरविशेषः सुखमिति वक्तुं शक्यम् आत्मस्वरूप-
ज्ञानस्याखण्डत्वात् । न च 'सत्यं विज्ञानमानन्दं ब्रह्म' इति श्रुत्विलादेबात्म-
नश्चिदानन्दोभयरूपत्वमस्तीति वाच्यम् 'नानन्दं न निरानन्दम्' इत्यादि-
श्रुत्या 'अदुःखमसुखं ब्रह्म भूतभव्यभवात्मकम्' इत्यादिस्मृत्या च आनन्दा-
भावस्यापि प्रतिपादितत्वेन तर्कस्यैवात्रादरणीयत्वात् । तर्कस्य चात्मनश्चि-
दानन्दोभयरूपत्वप्रतिरोधित्वात् । आनन्दरूपताश्रुतिश्च दुःखनिवृत्तिपरतया
गौणी । अतश्चिद्रूप एवात्मा ( द्र० सां० प्र० मा० अ० ५ सू०
६६-६७ ) ।
छिन्नहस्तवत्—यथा छिन्नं हस्तं पुनः कोऽपि न गृह्णाति तथैव विवेकेन त्यक्तमिदं
देहेन्द्रियादिकं पुनर्नाभिमन्येत । ( सां० प्र० मा० अ० ४ सु० ७ ) ।