This page has been fully proofread once and needs a second look.

सांख्यकोशः
 
१५
 
खण्डस्तु तत्तदुपाधिसंयोगादाकाशा दुत्पद्यते । ( द्र० सां० प्र० मा० अ० २

सू० १२ ) ।
 

 
कालादिकर्मवत् , कालादिकर्मवत्
यथैको गच्छति ऋतुरितरथ प्रवर्तते इत्यादिरूपं कालादिकमं
 

स्वत एव भवत्येवमेव प्रधानस्यापि स्वत एव चेष्टा भविष्यतीति ।

 
कुमारीशङ्खचत् – थवत् , कुमारीशङ्खवत्
था कुमारीहस्तचूलिकानामन्योन्यसङ्गेन झणत्कारो भवति,

तथैव बहुभिः सङ्गे रागद्वेषाद्युत्पत्त्या कलहो भवति अतो बहुमिःभिः सङ्गो

न कार्य: । ( सां० प्र० मा० अ० ४ सू० ९ )।
 

 
कुलवधूवत्- - , कुलवधूवत्
यथा स्वामिना मे दोषो दृष्ट इत्यवधारणेन लज्जिता कुलवधू

स्वामिनमुपसर्पति, तद्वत् प्रकृतिरपि पुरुषेण निजपरिणामित्वदुःखात्मकत्वादि-

दोषदर्शनाद् लज्जिता भवति, पुनश्च नोपसर्पति पुरुषम् ।
 

 
केवलज्ञानम्
, केवलज्ञानम्
विपर्ययदोषरहितत्वेन विशुद्धं ज्ञानम् । तस्य स्वरूपम् - 'नास्मि,

न मे, नाहम्' इत्यस्ति । तत्र प्रथमेन आत्मनः कर्तृत्वनिषेधः, द्वितीयेन सङ्ग-

निषेधः, तृतीयेन च तादात्म्यनिषेधः क्रियते ।
 

 
कैवल्यम् , कैवल्य
आत्यन्तिको दुःखत्रयामावः कैवल्यम् ।
 

 
कोशकारवत्-
-
, कोशकारवत्
यथा कोशकारः कीटविशेष: स्वनिर्मितेनावासेन आत्मानं

वघ्नाति, तथैव प्रकृतिरपि धर्माधर्मवैराग्यावैराग्यैश्वर्यानैश्वर्याज्ञानैः सप्त-

रूपैर्दुःखहेतुभिरात्मानं वघ्नाति । पुनश्च ज्ञानात्मकेनैकरूपेणात्मानं

दुःखान्मोचयति ।
 

 
क्षीरवत्- - , क्षीरवत्
यथा क्षीरं पुरुषप्रयत्ननैरपेक्ष्येण स्वयमेव दधिरूपेण परिणमते,

एवमचेतनस्यापि परप्रयत्नं विनाऽपि महदादिरूपः परिणाम: प्रधानस्य

भवतीति ।
 

 
गुणाः, गुण – सत्त्वरजस्तमांसि ।
 

 
सत्त्वम् - , सत्त्व
लघु प्रकाशकम् प्रोत्यात्मकञ्च भवति । तत्र लघुत्वं गौरवप्रतिद्वन्द्वि

यतश्च वह्नेरूर्ध्वंज्वलनं वायोस्तिर्यग्गमन मिन्द्रियाणां स्ववृत्तिपाटवञ्च

भवतीति । प्रकाशकमपि सत्त्वमस्ति यत इन्द्रियाणि वस्तु प्रकाशयन्तीति ।