This page has not been fully proofread.

सांख्यकोशः
 
१५
 
खण्डस्तु तत्तदुपाधिसंयोगादाकाशा दुत्पद्यते । ( द्र० सां० प्र० मा० अ० २
सू० १२ ) ।
 
कालादिकर्मवत् — यथैको गच्छति ऋतुरितरथ प्रवर्तते इत्यादिरूपं कालादिकमं
 
स्वत एव भवत्येवमेव प्रधानस्यापि स्वत एव चेष्टा भविष्यतीति ।
कुमारीशङ्खचत् – थथा कुमारीहस्तचूलिकानामन्योन्यसङ्गेन झणत्कारो भवति,
तथैव बहुभिः सङ्गे रागद्वेषाद्युत्पत्त्या कलहो भवति अतो बहुमिः सङ्गो
न कार्य: । ( सां० प्र० मा० अ० ४ सू० ९ )।
 
कुलवधूवत्- - यथा स्वामिना मे दोषो दृष्ट इत्यवधारणेन लज्जिता कुलवधू
स्वामिनमुपसर्पति, तद्वत् प्रकृतिरपि पुरुषेण निजपरिणामित्वदुःखात्मकत्वादि-
दोषदर्शनाद् लज्जिता भवति, पुनश्च नोपसर्पति पुरुषम् ।
 
केवलज्ञानम्
– विपर्ययदोषरहितत्वेन विशुद्धं ज्ञानम् । तस्य स्वरूपम् - 'नास्मि,
न मे, नाहम्' इत्यस्ति । तत्र प्रथमेन आत्मनः कर्तृत्वनिषेधः, द्वितीयेन सङ्ग-
निषेधः, तृतीयेन च तादात्म्यनिषेधः क्रियते ।
 
कैवल्यम् – आत्यन्तिको दुःखत्रयामावः कैवल्यम् ।
 
कोशकारवत्-
- यथा कोशकारः कीटविशेष: स्वनिर्मितेनावासेन आत्मानं
वघ्नाति, तथैव प्रकृतिरपि धर्माधर्मवैराग्यावैराग्यैश्वर्यानैश्वर्याज्ञानैः सप्त-
रूपैर्दुःखहेतुभिरात्मानं वघ्नाति । पुनश्च ज्ञानात्मकेनैकरूपेणात्मानं
दुःखान्मोचयति ।
 
क्षीरवत्- - यथा क्षीरं पुरुषप्रयत्ननैरपेक्ष्येण स्वयमेव दधिरूपेण परिणमते,
एवमचेतनस्यापि परप्रयत्नं विनाऽपि महदादिरूपः परिणाम: प्रधानस्य
भवतीति ।
 
गुणाः – सत्त्वरजस्तमांसि ।
 
सत्त्वम् - लघु प्रकाशकम् प्रोत्यात्मकञ्च भवति । तत्र लघुत्वं गौरवप्रतिद्वन्द्वि
यतश्च वह्नेरूर्ध्वंज्वलनं वायोस्तिर्यग्गमन मिन्द्रियाणां स्ववृत्तिपाटवञ्च
भवतीति । प्रकाशकमपि सत्त्वमस्ति यत इन्द्रियाणि वस्तु प्रकाशयन्तीति ।