This page has been fully proofread once and needs a second look.

श्लोक २१ ) । किन्त्वेतावता कपिलद्वविध्यं त्रैविध्यं वास्तीति स्वीकारो
भ्रम एवेति श्रीमदुदयवीरशास्त्रिणः ( द्र० सांख्यदर्शनका इतिहास पृ०
८- १२ ) । एतदनुसारं महाभारतमतेनापि सांख्यप्रवर्तक : कपिलो विष्णोरव-
तार एव किन्तु स क्रोधाग्निना सगरपुत्रान् भस्मीचकारेति तस्याग्नित्वं
प्रसिद्धमभूत् इति । विज्ञानभिक्षुरपि कपिलद्वैविध्यं निराकरोति । ( द्र० सां०
प्र० भा० अ० ६ सु० ७० ) ।
 
करणम् , करण
त्रयोदशविधम् । अन्तःकरणं त्रिविधं बुद्ध्यहङ्कारमनोरूपम् । दशधा
च वाह्यं ज्ञानेन्द्रियकर्मेन्द्रियरूपम् ।
 
करणकार्यम् , करणकार्य
आहार्यम् ( व्याप्यम् ) धार्यम् = वारयितव्यम् प्रकाश्यम्
प्रकाशयितव्यञ्चेति । यथा कर्मेन्द्रियाणां वचनादानविहरणोत्सर्गानन्दा यथा-
यथं व्याप्या भवन्ति । अन्तःकरणत्रयस्य प्राणादिलक्षणया वृत्त्या शरीरं
धार्यं भवति । एवं बुद्धीन्द्रियाणां शब्दस्पर्शरूपरसगन्धाः प्रकाश्या भवन्ति ।
( द्र० सां० त० की० का० ३२ ) ।
 

 
कर्तृत्वभोक्तृत्वयोर्वैयधिकरण्यम् , कर्तृत्वभोक्तृत्वयोर्वैयधिकरण्य
अभिमानवृत्तिकमन्तःकरणमहङ्कारः, स
एव कृतिमान् । प्रायशोऽभिमानोत्तरमेव प्रवृत्तिदर्शनात् । न तु पुरुषः
कृतिमान् अपरिणामित्वात् । एवमहङ्कारस्य कर्तृत्वेऽपि भोगश्चित्येव
पर्यवसन्नो भवति । न चान्यनिष्ठकर्मणाऽन्यस्य भोगे पुरुषविशेषस्थापि
नियमो न स्यादिति वाच्यम् अहङ्कारेणासञ्जितं तस्याश्चितो यत् कर्म-
तज्जन्यत्वात्तदीयमोगस्य । तथा च योऽहङ्कारो यं पुरुषमादायाचेतने
वस्तुनि 'अहमिति, ममेति' 'च वृत्ति' करोति, तस्याहङ्कारस्य कर्म तस्या-
त्मन उच्यते । तेनैव च कर्मणा तत्रात्मनि भोगोऽज्यंते इति भोगे न
पुरुषविशेषनियमानुपपत्तिः । (द्र० सां० प्र० मा० म० ६ सू० ५४-५५) ।
 
कर्मेन्द्रियाणि, कर्मेन्द्रिय
वाक्पाणिपादपायूपस्थानि पञ्च ।
 
काम्यम् , काम्य
फलाभिसन्धिना कृतं कर्म ।
 
कालः, काल
द्विविधो, नित्यः खण्डरूपश्च । तत्र नित्यः कालः प्रकृतेर्गुणविशेष एव,