This page has been fully proofread once and needs a second look.

श्लोक २१ ) । किन्त्वेतावता कपिलद्वविध्यं त्रैविध्यं वास्तीति स्वीकारो
भ्रम एवेति श्रीमदुदयवीरशास्त्रिणः ( द्र०
सांख्य कोशः
 
श्लोक २१ ) । किन्त्वेतावता कपिलद्वविध्यं त्रैविध्यं वास्तीति स्वीकारो
भ्रम एवेति श्रीमदुदयवीरशास्त्रिणः ( द्र० सांख्य
दर्शनका इतिहास पृ०

८- १२ ) । एतदनुसारं महाभारतमतेनापि सांख्यप्रवर्तक : कपिलो विष्णोरव-

तार एव किन्तु स क्रोधाग्निना सगरपुत्रान् भस्मीचकारेति तस्याग्नित्वं

प्रसिद्धमभूत् इति । विज्ञानभिक्षुरपि कपिलद्वैविध्यं निराकरोति । ( द्र० सां०

प्र० भा० अ० ६ सु० ७० ) ।
 

 
करणम् , करण
त्रयोदशविधम् । अन्तःकरणं त्रिविधं बुद्ध्यहङ्कारमनोरूपम् । दशधा

च वाह्यं ज्ञानेन्द्रियकर्मेन्द्रियरूपम् ।
 
'

 
करणकार्यम् , करणकार्य
आहार्यम् ( व्याप्यम् ) धार्यम् = वारयितव्यम् प्रकाश्यम्

प्रकाशयितव्यञ्चेति । यथा कर्मेन्द्रियाणां वचनादानविहरणोत्सर्गानन्दा यथा-

यथं व्याप्या भवन्ति । अन्तःकरणत्रयस्य प्राणादिलक्षणया वृत्त्या शरीरं

धार्यं भवति । एवं बुद्धीन्द्रियाणां शब्दस्पर्शरूपरसगन्धाः प्रकाश्या भवन्ति ।

( द्र० सां० त० की० का० ३२ ) ।
 
-
 

 

 
 
 
कतृ त्वभोक्तृत्वयोर्वैयधिकरण्यम्- , कतृत्वभोक्तृत्वयोर्वैयधिकरण्य
अभिमानवृत्तिकमन्तःकरणमहङ्कारः,

एव कृतिमान् । प्रायशोऽभिमानोत्तरमेव प्रवृत्तिदर्शनात् । न तु पुरुषः

कृतिमान् अपरिणामित्वात् । एवमहङ्कारस्य कर्तृत्वेऽपि भोगश्चित्येव

पर्यवसन्नो भवति । न चान्यनिष्ठकर्मणाऽन्यस्य भोगे पुरुषविशेषस्थापि

नियमो न स्यादिति वाच्यम् अहङ्कारेणासञ्जितं तस्याश्चितो यत् कर्म-

तज्जन्यत्वात्तदीयमोगस्य । तथा च योऽहङ्कारो यं पुरुषमादायाचेतने

वस्तुनि 'अहमिति, ममेति' 'च वृत्ति' करोति, तस्याहङ्कारस्य कर्म तस्या-

त्मन उच्यते । तेनैव च कर्मणा तत्रात्मनि भोगोऽज्यंते इति भोगे न

पुरुषविशेषनियमानुपपत्तिः । (द्र० सां० प्र० मा० म० ६ सू० ५४-५५) ।

 
कर्मेन्द्रियाणि, कर्मेन्द्रिय
वाकुक्पाणिपादपायूपस्थानि पञ्च ।
 
काम्यम् –

 
काम्यम् , काम्य
फलाभिसन्धिना कृतं कर्म ।
 

 
कालः, काल
द्विविधो, नित्यः खण्डरूपश्च । तत्र नित्यः कालः प्रकृतेर्गुणविशेष एव,