This page has been fully proofread once and needs a second look.

सांख्यकोशः
 
उपास्यासिद्धिवत् , उपास्यासिद्धिवत्
यथा उपास्यभूतानां ब्रह्मादीनां सिद्धिसत्त्वेऽपि कृतकृत्यत

नास्ति, तेषामपि योगनिद्रादौ योगाभ्यासश्रवणात् । तथैव ऐश्वर्य योगेऽपि

कृतकृत्यता नास्ति, क्षयातिशय दुःखैरनुगतत्वात् । ( द्र० सां० प्र० मा०

अ ४ सु० ३२ ) ।
 
"
 

 
उभयेन्द्रियं , उभयेन्द्रिय
मनः । ज्ञानेन्द्रियाणां कर्मेन्द्रियाणाञ्च प्रवर्तकत्वात् ।
 

 
उष्ट्रकुङकुमवहनवत्
, उष्ट्रकुङकुमवहनवत्
यथोष्ट्रस्य कुङ्कुमवहनं स्वाम्यर्थं तथैव प्रधानकर्तृका

सृष्टिरपि परार्थैव ( पुरुषार्थैव ) भवतीति ।
 

 
ऐकभौतिकः- , ऐकभौतिक
पार्थिवमेव शरीरमस्ति, अन्यानि च भूतानि उपष्टम्भकमात्राणीति

अपरे मन्यन्ते । अन्येषां भूतानामुपष्टम्भकत्वमात्रेज शरीरस्य पाञ्चभौतिक

त्वव्यपदेशः । अयमेव सिद्धान्तपक्षः । तथा च सांख्यसूत्रम् – 'न पाश्चभौतिकं

शरीरम्' इति । ( अ० ५ सू० १०२ ) ।
 
1
 

 
ऐश्वर्यम् , ऐश्वर्य
बुद्धिधर्मः यतोऽणिमादिप्रादुर्भावो भवति ।

औदासीन्यम् - अकर्तृत्वम् — माध्यस्थ्यम् ।
 
-
 

 
कपिलः, कपिल
सांख्यशास्त्रप्रवर्तकः तदुक्तम् – ऋषि प्रसूतं कपिलं यस्तमग्रे ज्ञान-

बिभति जायमानञ्च पश्येत्' श्वेताश्वतरोपनिषत्-

[--अ० ५ म० २ ।

'सांख्यस्य वक्ता कपिल: परमपिः स उच्यते महाभा ३३७७६०

'पञ्चमः कपिलोनाम सिद्धेश: कालविप्लुतम् । प्रोवाचासुरये सांख्यं तत्त्व-

ग्रामविनिर्णयम्' श्रीमद्भागवतम् – स्क० १ अ० १ श्लो० १८ ।

कपिलो ब्रह्मसुतः 'इति सां० का० गौडपादभाष्यम् । विष्णोरवतारः

स्वायम्भुवस्य मनोः दुहितरि देवहूत्यां महर्षेः कर्दमाज्जात इति

श्रीमद्भागवतम् – यथा तस्यां बहुतिथे काले भगवान् मधुसूदनः ।

कार्दमं वीर्यमापन्नो जज्ञेऽग्निरिव दारुणि ॥ अयं सिद्धगणाधीश: सांख्या-

चायँ: सुसम्मतः लोके कपिल इत्याख्यां गन्ता ते कीर्तिवर्धनः ॥ स्क-३-अ-२४

श्लोक ६-१९ ।
 

 
अग्यवतार इति महाभारतम् - यथा-"कपिलं परमषिञ्च यं प्राहुयंतयः

सदा । अग्निः स कपिलो नाम सांख्ययोगप्रवर्तकः ॥ ( वनपर्व अ० २११