2023-03-21 16:14:29 by Krishnadaschandran
This page has been fully proofread once and needs a second look.
एबीवोक्तं तेन सांख्य प्रवचनभाष्ये– 'अयं चेश्वरप्रतिषेधः एकदेशिनानां प्रोढि-
वादेनेति । यथा एकस्मिन्नेव बोद्धदर्शने धाराचतुष्टयी प्रसिद्धा, एकस्मिन्नेव
गौतमीये दर्शने नव्यप्राच्यधाराद्वयी, एकस्मिन्नेव च वैयासके दर्शने नैकानि
प्रस्थानानि सन्तीति । इत्थं सत्यपि सांख्यस्य सेश्वरनिरीश्वरेतिधाराद्वये
सेश्वरधारैव मनोरमतामञ्चति । क्वचिद् दृश्यमानोऽपि निषेधस्तत्कर्तृत्व-
प्रतियोगिकएव न तु ईश्वरस्वरूपप्रतियोगिक इति मन्तुमुचितम् ।
तथाहि - परवशा प्रकृतिः कर्त्री 'श्रकार्यत्वेऽपि तद्योग: पारवश्यात्' इति
सूत्रप्रामाण्यात् सिध्यति । स परः आत्मैव न न्यायाभिमत ईश्वरः ।
अर्थात् प्रकृतिप्रतिविम्बितत्वाद् आत्मनि सर्ववित्त्वसर्वंकर्तृत्वाभिमानो न तु
वास्तविकः । तथा च सूत्रम् - 'सहि सर्ववित् सर्वकर्ता' इति । अत्र सूत्रे
'सहि' इत्यस्य 'प्रकृतिरेव' इत्यर्थः कृतो वृत्तिसारकारेण । यद्यस्मदभिमत
'उक्ताभिमानवानात्माऽस्ति तदा भवतु स ईश्वर: । किन्तु न्यायाभिमते
ईश्वरे तु प्रमाणं नास्ति । अर्थात् सांख्या: कर्तारमेवेश्वरं निषेधन्ति न तु
'कर्तृत्वाद्यभिमानिनमात्मानमीश्वरमिति । अत एव हि वृत्तिकृता 'विमुक्त-
विमोक्षार्थं स्वार्थं वा प्रधानस्य' इति सूत्रवृत्तौ आत्मनो द्वैविध्यं प्रतिपादितं
परश्चापरश्चेति । ( द्र० सा० सू० अ० वृ० अ० ३ ० ५७ ) ।
उपादानकारणम् , उपादानकारण
जगदुपादानं न केवल आत्मा, नाऽप्यात्माश्रिताऽविद्या, नापि
कपालद्वयवद् आत्मा चाविद्या चेत्युभयं समुच्चितं जगदुपादानम् सम्भवति,
आत्मनोऽसङ्गत्वात् ।
सङ्ग्राख्यो हि यः संयोगविशेषस्तेनैव द्रव्याणां
विकारो भवति । अतोऽसङ्गत्वात् केवलस्यात्मनोऽद्वितीयस्य नोपादानत्वम् ।
नाऽविद्याद्वाराऽपि, असङ्गत्वेनैवाविद्यायोगस्यापि निरस्तत्वात् । प्रत्येको-
'पादनत्ववदेव समुच्चितोपादानत्वमपि प्रसङ्गत्वादेवासंभवि । ( द्र० सां० प्र०
मा० अ० ५ सू० ६५ ) ।
उपादानयोग्यता, उपादानयोग्यता
गुणवत्त्वं सङ्गित्वं चोपादानयोग्यता । तयोरभावात् नित्यत्वेऽपि पुरुषस्य नोपादानत्वम् । महदादयस्तु स्वयं कार्यरूपा अतो तेऽपि जगदुपादानम् । तस्मात् प्रकृतिरेव जगदुपादानम् । सां० प्र० मा० अ० ६
सू० ३२, ३३ ) ।