This page has been fully proofread once and needs a second look.

व्याप्तिशङ्कातत्परिहारायासचिन्तेति । इयमेव व्याख्या अनिरुद्ध प्रभृतीन
व्याख्यातॄणाम् ।

विज्ञानभिक्षवस्तु विवेचयन्ति , विज्ञानभिक्षवस्तु विवेचयन्ति
-नैभिः सूत्रेरीवरखण्डने सूत्रकारामिप्रायः
यद्येवं स्यात् तदा 'ईश्वराभावात् इत्येवं सूत्रयेत् न तु 'ईश्वरासिद्धेः
इत्याकारं सूत्रं रचयेत् । तथा च जगत्त्रष्टृत्वेनेश्वरो न सिध्यति, प्रकृते रेव
सृष्टिकर्तृत्वात् । ईश्वरे तु प्रकृत्यधिष्ठातृत्वमात्रमस्ति । उपपादितञ्चैतत्
सविस्तरं ब्रह्मसूत्र विज्ञानामृतभाष्ये । सांख्यप्रवचनभाष्येऽपि 'तत्सन्निधानाद-
धिष्ठातृत्वं मणिवत्' इति सूत्रभाष्ये स्पष्टीकृतञ्चंतत् । अतः सङ्कल्पपूर्वक -
जगत्सृष्टिकर्तृत्वनिषेधपरतवैवाक्तसूत्रचतुष्टयं व्याख्यातं तैः । यद्यपि योगि-
प्रत्यक्ष समाधानेनैवेश्वरप्रत्यक्षेप लक्षणाव्याप्तियङ्कायाः समाधानं जायते
तथापि स्मृतत्वे सत्युपेक्षानर्हत्वरूपप्रसङ्गसङ्गतेः प्रसङ्गादेवेश्वरे जगत्-
स्रष्टृत्वनिषेधः सांख्याभिप्रेत इहोपक्षिप्त इति तेषामभिप्रायः ।

वृत्तिकारप्रभृतीनामयमभिप्रायः, वृत्तिकारप्रभृतीनामयमभिप्राय
:-ईश्वरसत्तानिषेध एवैषां सूत्राणां तात्पर्यम्
अन्यथा ईश्वरोऽस्तीतिवास्तविको यदि सांख्य सम्प्रदायस्तदा योगिप्रत्यक्ष-
समाधानेनैवेश्वर प्रत्यक्षीयशङ्काया अपि समाधानं जायत एवेति निष्प्रयो-
जनानि अप्रासङ्गिकानि चैतानि सूत्राणि भवेयुः । यतो नायं जगत्सृष्टि-
कर्तृत्व प्रसङ्गोऽपि तु प्रत्यक्षलक्षणप्रसङ्ग एवेति । विज्ञानभिक्षुरपि तृतीयाध्यायः
'ईदृशेश्वरसिद्धिः सिद्धा' इति सूत्रभाध्ये प्रकृतिलीनस्य जन्येश्वरस्य
सिद्धिमाचक्षाणो नित्येश्वरस्य विवादास्पदत्वमुरीचकार ।

एवं माठरवृत्तिकारोऽप्याह, एवं माठरवृत्तिकारोऽप्याह
- ईश्वरः कारणं न भवति कस्मात् ? निर्गुण-
त्वात् । इमा: सगुणाः प्रजाः सत्त्वंरजस्तमस्त्रयो गुणाः । ते च प्रजासु सन्ति ।
तांश्च गुणान् दृष्ट्वा साधयाम: - प्रकृतेरिमाः समुत्पन्नाः प्रजाः । यदीश्वरः
कारण स्यात् निर्गुणादीश्वरान्निर्गुणा एव प्रजाः स्युः । नचैवम् तस्मादीश्वरः
कारणं न भवतीति । ( मा० वृ० सां० का० ६१ । ।
वस्तुतस्तु द्वयी हि सांख्यविचारधारा प्रवहमानाऽस्ति, सेश्वरसांख्यधारा
निरीश्वरसांख्यधारा चेति । एतच्च विज्ञानभिक्षुरपि स्वीकरोति । अढ