This page has been fully proofread once and needs a second look.

सांख्यकोश:
 
१०
 
इन्द्रियम् , इन्द्रिय
सात्त्विकाहङ्कारोपादानकत्वमिन्द्रियत्वम् । तत्र पञ्च ज्ञानेन्द्रियाणि

चक्षुः श्रोत्रघ्राणरसनत्वगाख्यानि, पञ्च कर्मेन्द्रियाणि वाक्पाणिपादपायूपस्था-

ख्यानि । उभयात्मकं मनश्चेत्येकादशेन्द्रियाणि । इन्द्रियाणि चातीन्द्रियाणि

भवन्ति, भ्रान्तानान्तु अधिष्ठानभूतगोलकादाविन्द्रियज्ञानम् । यदि गोल-

कादिकमेवेन्द्रियं स्यात् तदा छिन्नकर्णस्य श्रवणानुपपत्तिः पाटलचक्षुषोऽपि

रूपग्रहणप्रसङ्गः । पुनश्च शक्तिभेदादिन्द्रियाणि नाना भवन्ति, न तु एक-

मिन्द्रियमिति ।
 

 
इन्द्रियाभौतिकत्वम् , इन्द्रियाभौतिकत्व
सांख्यमते इन्द्रियाणामहङ्कारतत्त्वादुत्पत्तेराहङ्कारिकत्व-

मस्ति न तु भीतिकत्वम् । अतो भौतिकानीन्द्रियाणीति न्यायमतमपास्तं

भवति । तथा च सांख्यसूत्रम् - 'न भूतप्रकृतित्वमिन्द्रियाणामाहङ्कारि

कत्वश्रुतेः' इति । ( म० ५ सू० ८४ ) । श्रुतिश्च – 'एतस्माज्जायते

प्राणो मनः सर्वेन्द्रियाणि च । खं वायुर्ज्योतिरापश्च पृथ्वी विश्वस्य धारिणी'

इति ।
 

 
इषुकारवत्-
-
, इषुकारवत्
यथा शरनिर्माण एकचित्तस्येपुकारस्य पावें राज्ञो गमनेनापि

एकाग्रता न हीयते, तथैव एकाग्र चित्तस्य योगिनः समाधिहानिर्न भवताति ।

( सां० प्र० मा० अ० ४ सू० १४ ) ।
 

 
ईश्वरः, ईश्वर
जगत् स्रष्टृत्वेनाभ्युपगतो न्यायादिसम्मतः । ऋत्र केचित्-सांख्यमते

ईश्वरो नास्ति, अतो निरीश्वरं सांख्यदर्शन मिति । अतएव सांख्य-

सूत्राणि – "ईश्वरासिद्धेः, मुक्तवद्धयोरन्यतराभावान्न तत्सिद्धिः, उभयथाप्य-

सत्करत्वम्, मुक्तात्मनः प्रशंसा उपासासिद्धस्य वा" इति ( अ० १

सू० ९२, ९३, ९४, ९५ । )।
 

अयमभित्रायः– प्रत्यक्षलक्षणनिरूपणप्रसङ्गे योगिनामबाह्यप्रत्यक्षे आपादितां

लक्षणाव्याप्तिशङ्कां 'योगिनामबाह्यप्रत्यक्षत्वान्न दोपः, लीनवस्तुलब्धाति-

शयसम्बन्धाद् वाऽदोषः' इति सूत्राभ्यां समाधाय पुनरीश्वरप्रत्यक्षेऽपि तामेव

लक्षणाव्याप्तिशङ्काम् ईश्वरासिद्धिप्रतिपादनमुखेन निराकरोति 'ईश्वरासिद्धे'

रित्यादिसुत्रचतुष्टयेन । अर्थात् ईश्वर एव नास्ति, कुतस्तत्प्रत्यक्ष लक्षणा-