2023-03-13 18:17:48 by Krishnadaschandran
This page has been fully proofread once and needs a second look.
नाज्ञातास्तिष्ठन्ति, ज्ञानमुखेच्छादीनामज्ञातसत्तास्वीकारे तेष्वपि घटादिष्विव
संशयादिप्रसङ्गात् 'अहं जानामि न वा सुखी न वा' इत्यादिरूपेण । अतस्तेषां
सदा ज्ञातत्वात् तद्रष्टा चेतनोऽपरिणामीत्यायातम् । चेतनस्य परिणामित्वे
कदाचिदान्ध्यपरिणामेन सत्या अपि बुद्धिवृत्तेः दर्शनाभावेन संशयाद्या-
पत्तेरिति । ममेदं शरीरं ममेयं वुद्धिरितिषष्ठी
भिन्न आत्मास्तीति सिद्धम् । ( द्र० सां० प्र० भा० अ० ६
आधिदैविकम्
देवान् = अग्विाय्वादीन् अधिकृत्य प्रवृत्तम् आधिदैविकम्
दुःखम् ।
आधिभौतिकम्
भूतानि = मानुषपशुपक्ष्यादीनि अधिकृत्य प्रवृत्तम् आधि-
भौतिकम् दुःखम् ।
आध्यात्मिकम्
आत्मानम् = ग्रव्यस्तात्मभावं शरीरं मनचाधिकृत्य प्रवृत्तम्
आध्यात्मिकं दुःखम् ।
-
आनुमानिकम्
अनुमानात् सिद्धम् = प्रकृत्यादिकम् ।
आनुश्रविकः
वैदिकः कर्मकलापः । गुरुपाठादनु श्रूयते इत्यनुश्रवो वेदः ।
एतदुक्तं भवति — ध्यते एव परं न केनापि क्रियत इति । तत्र ( अनुश्रवे-
वेदे ) भव आनुश्रविकः तत्र प्राप्तो ज्ञात इति यावत् । ( द्र० सां० त० को०
का० २ ) ।
आविर्भावः
कारणव्यापारादूर्ध्वमिव पूर्वमपि सतः प्रादुर्भावः, प्राकट्यम् ।
यथा तिलेषु सतस्तैलस्य, सौरभेयीषु सतो दुग्धस्य प्राकट्यम् ।
आसनम् –
आसनम् , आसन
यत् स्थिरं सत् नुखसाधनं भवति स्वस्तिकादिकं तदासनम् । तथा च
सूत्रम् – 'स्थिरसुखमासनम्' इति । ( सां० सू० अ० ३ सू० ३४ ) ।
आसुरिः
कपिलशिष्यः । तत्र प्रमाणम् - "एतत्पवित्रमग्र्यं मुनिरासुरयेऽनुकम्पया
प्रददौ' इति ( सां० का० ७० ) ।