This page has been fully proofread once and needs a second look.

वाहिकशरीरमिति विज्ञान भिक्षुः । लोकाल्लोकान्तरं लिङ्गदेहमतिवाहयती
त्यातिवाहिकम् । भूताश्रयतां विना चित्रादिवत् लिङ्गशरीरस्य गमनासंभवात् ।
लिङ्गशरीरन्तु भोगाश्रयतया पुरुषप्रतिबिम्बाश्रयतया वा पृथगेवास्ति । तत्र
प्रमाणञ्च – 'अङ्गुष्ठमात्र: पुरुषोऽन्तरात्मा सदा जनानां हृदयं सन्निविष्टः'
'अङ्गुष्ठमात्रं पुरुषं निश्चकर्षं बलाद्यमः' इति श्रुतिस्मृती । ( द्र० सां० प्र०
मा० अ० ५ सू० १०३ ) ।
आचार्योऽनिरुद्धस्तु- सूक्ष्मशरीर मेवातिवाहिकं न शरीरान्तरमित्याह । ( द्र०
सां० सू० अनि० ऋ० अ० ५ सू० १०३ ) ।
 
आत्मद्वैतम् , आत्मद्वैत
आत्मनां भोग्यप्रपञ्चेन परस्परञ्चात्यन्ताभेदरूपमद्वैतमिति वेदा-
न्तिनः । तत्सांख्यानां नाभिमतम् । अजामेकामितिवाक्यगतैः प्रकृतित्या-
गास्यागादिलिङ्गभेदस्यैव सिद्धेः । यान्यपि अभेदवाक्यानि दृश्यन्ते तानि
'निरञ्जनः साम्यमुपैति' इत्यादिसाम्यप्रतिपादकश्रुत्येकवाक्यतया साम्य-
बोधकानि । आत्मनां परस्परं भेदस्तु जननमरणकरणानां प्रतिनियमादयुग-
पत्प्रवृत्त्यादेश्च सिद्धः। अभेदश्रुतिश्च जातिपरेति । भेदग्राहकप्रत्यक्षबाघादपि
नात्माद्वैतम् । ( द्र० सां० प्र० मा० अ० ५ सू० ६१-६२ ) ।
 
आत्मानिरवयवः, आत्मानिरवयव
'निष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जनम्' इति प्रामा-
ण्यादात्मा निरवयवः । 'मायां तु प्रकृति विद्यान्मायिनं तु महेश्वरम् ।
तस्यावयवभूतैस्तु व्याप्तं सर्वमिदं जगत्' इत्यादिश्रुतिस्तु आकाशजलयोरिव
अविभागमात्रेणांशांशिमावं बोधयति न तु सावयवत्वेन । ( द्र० सां० प्र०
मा० अ० ५ सू० ७३ ) ।
 
आत्मास्ति, आत्मास्ति
नामित्येवंप्रतीतिविषयः पुरुषः सामान्यतः सिद्ध एव । स च
देहादिव्यतिरिक्तोऽस्ति, परिणामित्वापरिणामित्वादिवैधर्म्यात् । प्रकृत्यादय-
स्तावत् प्रत्यक्षानुमानागमैः परिणामिनः सिद्धाः । पुरुषस्तु अपरिणामी सदा-
ज्ञातविषयत्वादनुमीयते । तथाहि, यथा सन्निकर्पसाम्येऽपि चक्षुषो रूपमेव
विषयो न रसादिस्तद्वत् पुरुषस्य स्वबुद्धिवृत्तिरेव विषयो न तु सन्निकर्ष-
साम्येऽपि अन्यद्वस्तु इति फलबलात् कल्प्यते । बुद्धिवृत्त्यारूढतयैव