This page has been fully proofread once and needs a second look.

अविवेकः, अविवेक
अभेदाभिमानः। देहेन्द्रियादिषु आत्माभिमानः, आत्मनि वा
देहेन्द्रियाद्यभेदाभिमानो देहादिधर्माभिमानश्चेति । अविवेकः विवेकप्रागभावो
बुद्धिधर्म इति सां० प्र० माध्यम् ( अ० १ सू० ५५ ) ।
 
अविशेषः, अविशेष
भूतसूक्ष्माणि, पञ्चतन्मात्राणि । नास्ति विशेषः शान्तघोर-
मूढत्वादिरूपो यत्र सोऽविशेष इति व्युत्पत्तेः । तन्मात्राण्यविशेषा इति
सांख्यकारिका । ( का० ३८ ) ।
 
असत्ख्यातिः, असत्ख्याति
अत्यन्तासतां ख्यातिरसत्ख्यातिः । सा च न सांख्याभिमता,
नरश्शृङ्गादीनां ख्यातिरिव । ( द्र० सां० प्र० भा० अ० ५ सू० ५१ ) ।
 
अस्मिता, अस्मिता
आत्मानात्मनोरेकता प्रत्ययः शरीराद्यतिरिक्त आत्मा नास्तीत्येवंरूपः ।
( द्र० सां० प्र० मा० अ० ३ सू० ३७ ) ।
 
अशक्तिः, अशक्ति
बुद्धिवधा अष्टाविंशतिभेदाः ते चैकादशेन्द्रियवर्धः सह बुद्धेः सप्तदश-
भेदा वधाः । तत्र नवविधानां तुष्टोनामष्टविधानां सिद्धीनाच विपर्ययाद् बुद्धेः
स्वतः सप्तदशवधा भवन्ति । एकादेशेन्द्रियाणामशक्तेः प्रयुक्ता अपि एकादश-
वघा बुद्धेर्भवन्ति । मिलित्वा चाष्टाविंशतिधा अशक्तिरस्ति । तथा चोक्तं
सांख्यकारिकायाम्—'"एकादशेन्द्रियवधाः सह बुद्धिवधैरशक्तिरुद्दिश ।
सप्तदशवधा देविपर्ययात् तुष्टिसिद्धीनाम्" इति ।
 
अहङ्कारः, अहङ्कार
अभिमानवृत्तिकः । अहमित्यभिमान एवाहङ्कारस्य सामान्यलक्षणम् ।
स च विविधः – वैकृतः सत्त्वप्रधानः इन्द्रियाणां हेतुः । भूतादिस्तमः प्रधानः
पञ्चतन्मात्राणां हेतुः । रजः प्रधानस्तैजस उभयहेतुः । तथा चोदाहृतं
युक्तिदीपिकायाम् – एतस्माद्धि महत आत्मन इमे त्रय आत्मानः सृज्यन्ते
वैकारिकतंजसभूतादयोऽहङ्कारलक्षणा इति ।
 
अहिनिर्ल्वयिनीवत् , अहिनिर्ल्वयिनीवत्
यथा सर्पों जोर्णां त्वचं हेयबुद्ध्याऽनायासेन परित्यजति,
तथैव मुमुक्षुः प्रकृतिमनादिकालोपभुक्तां जीर्णां हेयबुद्ध्या त्यजेत् । सां०
प्र० मा० अ० ४ सू० ६ ) ।
 
आतिवाहिकशरीरम् , आतिवाहिकशरीर
लिङ्गशरीरातिरिक्तं भौतिकं सूक्ष्मं शरीरान्तरमाति-