2023-03-21 15:42:22 by Krishnadaschandran
This page has been fully proofread once and needs a second look.
अमायिकत्वम् , अमायिकत्व
सत्यत्वम्, स्थिरत्वमकार्यत्वं वा । आत्मा सत्यत्वात् स्थिरत्वाद-
कार्यत्वाच्चामायिकः । जाग्रत् पदार्थापेक्षया स्वाप्नपदार्था मायिका: । आत्मा-
पेक्षया तु जाग्रत् पदार्था अपि मायिका एव । ( द्र० सां० प्र० भा० अ० ३
सू० २६ ) ।
अवयवाः, अवयव
प्रतिज्ञा हेतूदाहरणोपनय निगमनानि पञ्चावयवा न्यायस्य । ( द्र०
सां० प्र० मा० अ० ५ सू० २७ ) । इति । तत्र साध्यनिर्देशः प्रतिज्ञा, यथा
शब्दोऽनित्य इति । उदाहरसाधर्म्यात्साध्यसाधनं हेतुः, यथा उत्पत्तिधर्म-
कत्वादिति । उत्पत्तिधर्मकमनित्यं दृष्टमिति । तथा वैधर्म्यात् - उदाहरण-
वैधर्म्याच्च साध्यसाधनं हेतुरित्यर्थः । यथाऽनित्यः शब्दः उत्पत्तिधर्मकत्वात्
अनुत्पत्तिधर्मकं नित्यं दृष्टं यथाऽऽत्मादि ।
साध्यसाधर्म्यात्तद्धर्मंभावी दृष्टान्त उदाहरणम् यथा उत्पत्तिमत्त्वेन हेतुना
शब्दस्यानित्यत्वसाधने घटादिरुदाहरणं दीयते "घटादिवदिति" । अय-
मन्वयी दृष्टान्तः ।
व्यतिरेकेणापि दृष्टान्तो भवति । तथा च न्यायसूत्रम् – "तद्विपर्यंयाद् वा
विपरीतमिति" । अथ!त् साध्यवधर्म्यादतधर्मभावीदृष्टान्तोऽपि उदाहरणम् ।
यथाऽनित्य शब्द: उत्पत्तिधर्मंकत्वात्, यदुत्पत्तिधर्मकं न भवति, तन्नित्यं
भवति यथा आत्मादोति । उदाहरणापेक्षस्तथेत्युपसंहारो न तथेति वा
साव्यस्योपनयः । यथा उदाहरणे घटादिकमुत्पत्तिधर्मकत्वादनित्यं दृष्टं तथा
शब्दोऽपि उत्पत्तिधर्मंक इति वाक्यमुपनयः ।
हेत्वपदेशात् प्रतिज्ञायाः पुनर्वचनं निगमनम् । यथा, उत्पत्तिधर्मकत्वात्
शब्दोऽनित्य इति वाक्यं निगमनम् । ( द्र० न्या० द० अ० १ ग्रा० १ सू०
३३, ३४, ३५, ३६, ३७, ३८, ३९ ) । एतानि प्रतिज्ञादिलक्षणानि
न्यायदर्शनवदेवात्रापि शास्त्रे सम्मतानि ।
अविद्या, अविद्या
विपर्ययभेदः । सा चानित्येषु नित्यख्यातिः, अशुचिषु शुचिख्यातिः,
दुःखेषु सुखख्यातिः अनात्मसु आत्मख्यातिरिति । तथा च योगसूत्रम् -
अनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मख्यातिरविद्या (पा० २ सू० ५) ।