This page has not been fully proofread.

सांख्यकोशः
 

 
अमायिकत्वम् , अमायिकत्व – सत्यत्वम्, स्थिरत्वमकार्यत्वं वा । आत्मा सत्यत्वात् स्थिरत्वाद-

कार्यत्वाच्चामायिकः । जाग्रत् पदार्थापेक्षया स्वाप्नपदार्था मायिका: । आत्मा-

पेक्षया तु जाग्रत् पदार्था अपि मायिका एव । ( द्र० सां० प्र० भा० अ० ३

सू० २६ ) ।
 

 
अवयवाः, अवयव - प्रतिज्ञा हेतूदाहरणोपनय निगमनानि पञ्चावयवा न्यायस्य । ( द्र०

सां० प्र० मा० अ० ५ सू० २७ ) । इति । तत्र साध्यनिर्देशः प्रतिज्ञा, यथा

शब्दोऽनित्य इति । उदाहरसाधर्म्यात्साध्यसाधनं हेतुः, यथा उत्पत्तिधर्म-

कत्वादिति । उत्पत्तिधर्मकमनित्यं दृष्टमिति । तथा वैधर्म्यात् - उदाहरण-

वैधर्म्याच्च साध्यसाधनं हेतुरित्यर्थः । यथाऽनित्यः शब्दः उत्पत्तिधर्मकत्वात्

अनुत्पत्तिधर्मकं नित्यं दृष्टं यथाऽऽत्मादि ।
 

 
साध्यसाधर्म्यात्तद्धर्मंभावी दृष्टान्त उदाहरणम् यथा उत्पत्तिमत्त्वेन हेतुना

शब्दस्यानित्यत्वसाधने घटादिरुदाहरणं दीयते "घटादिवदिति" । अय-

मन्वयी दृष्टान्तः ।
 

 
"
 

 
व्यतिरेकेणापि दृष्टान्तो भवति । तथा च न्यायसूत्रम् – "तद्विपर्यंयाद् वा

विपरीतमिति" । अथ!त् साध्यवधर्म्यादतधर्मभावीदृष्टान्तोऽपि उदाहरणम् ।

यथाऽनित्य शब्द: उत्पत्तिधर्मंकत्वात्, यदुत्पत्तिधर्मकं न भवति, तन्नित्यं

भवति यथा आत्मादोति । उदाहरणापेक्षस्तथेत्युपसंहारो न तथेति वा

साव्यस्योपनयः । यथा उदाहरणे घटादिकमुत्पत्तिधर्मकत्वादनित्यं दृष्टं तथा

शब्दोऽपि उत्पत्तिधर्मंक इति वाक्यमुपनयः ।
 
यथा,
 

 
यथा,
 
उत्पत्तिधर्मकत्वात्
 

 
हेत्वपदेशात् प्रतिज्ञायाः पुनर्वचनं निगमनम् ।

शब्दोऽनित्य इति वाक्यं निगमनम् । ( द्र० न्या० द० अ० १ ग्रा० १ सू०

३३, ३४, ३५, ३६, ३७, ३८, ३९ ) । एतानि प्रतिज्ञादिलक्षणानि

न्यायदर्शनवदेवात्रापि शास्त्रे सम्मतानि ।
 

 
-
 

 
अविद्या,
अविद्या - विपर्ययभेदः । सा चानित्येषु नित्यख्यातिः, अशुचिषु शुचिख्यातिः,

दुःखेषु सुखख्यातिः अनात्मसु आत्मख्यातिरिति । तथा च योगसूत्रम् -

अनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मख्यातिरविद्या (पा० २ सू० ५) ।