This page has been fully proofread once and needs a second look.

अन्योन्याश्रयवृत्तयः, अन्योन्याश्रयवृत्ति
यथा त्रिदण्डी परस्पराश्रयेण घटधारणादिकायं कुरुते तथैव
त्रयोगुणाः परस्पराश्रयेणैव प्रकाशप्रवृत्तिनियमनरूपाणि कार्याणि कुर्वन्तीति ।
 
भवति चात्रागमः, भवति चात्रागम-
अन्योन्यमिथुनाः सर्वे सर्वे सर्वत्र गामिनः ।
रजसो मिथुनं सत्त्वं सत्त्वस्य मिथुनं रजः ॥
तमसश्चापि मिथुने ते सत्त्वरजसी उभे ।
उभयोः सत्त्वतमसोः मिथुनं तम उच्यते ॥
नैषामादिः संप्रयोगो वियोगो वोपलभ्यते ॥ इति ।
( देवी भागवतम् ३-८)
 
अपवर्गः, अपवर्ग
द्वयोः प्रकृतिपुरुषयोरेकतरस्यात्मनो वा औदासीन्यमपवर्गः । प्रकृते-
रौदासीन्यं विवेकिनं प्रत्यप्रवर्तनम् । पुरुषस्यौदासीन्यं प्रकृत्यनभिष्वङ्गः ।
( द्र० सां० सू० अनि० वृ० अ० ३ सू० ६५ ) ।
 
अपौरुषेयत्वम्, अपौरुषेयत्व
दृष्टं वस्तु मवेददृष्टं वा, यस्मिन् वस्तुनि कृतमिति बुद्धि-
रुपजायते तत् पौरुपेयम् । न तु पुरुषोच्चरितत्वं पौरुषेयत्वमितिसांख्यामि-
मतम् । तथा सति वेदानामपि आदिपुरुषोच्चरितत्वेन पौरुषेयत्वापत्तिः
स्यात् । ( द्र० सां० प्र० मा० अ० ५ सू० ५० ) ।
 
अबाह्यप्रत्यक्षम्, अबाह्यप्रत्यक्ष
ऐन्द्रियक प्रत्यक्षभिन्नं प्रत्यक्षम् ।
 
अभिचेष्टा, अभिचेष्टा -
सर्वो व्यापारः ।
 
अभिनिवेशः, अभिनिवेश
मरणादित्रासः, मा न भूवम् भूयासमित्येवरूपः ।
 
अभिमानः, अभिमान
बुद्ध्युपादानकोऽहङ्कारः । अन्तःकरणरूपो द्रव्यविशेष इति विज्ञान-
भिक्षुः । तदुक्तम् – अन्तःकरणमेकमेव बीजाङ्कुरमहावृक्षादिवत् अवस्थात्रय-
मात्रभेदात् कार्यकारणभावमापद्यत इति । अत एव "मनोमहान् मतिर्ब्रह्मा
पूर्बुद्धिः ख्यातिरीश्वरः" इत्यत्र मनोबुद्ध्यो रेकपर्यायत्वमुक्तम् ।
 
अभिव्यक्तिः, अभिव्यक्ति
कारणे सतां घटपटादीनां ततः प्रादुर्भावो, यथा तिलेषु सतस्तै-
लस्याविर्भावः ।