This page has not been fully proofread.

सांख्यकोशः
 

 

 

 
अन्योन्याश्रयवृत्तयः-
, अन्योन्याश्रयवृत्ति-
प्र:- यथा त्रिदण्डी परस्पराश्रयेण घटधारणादिकायं कुरुते तथैव

त्रयोगुणाः परस्पराश्रयेणैव प्रकाशप्रवृत्तिनियमनरूपाणि कार्याणि कुर्वन्तीति ।
 

 
भवति चात्रागमः-
, भवति चात्रागम-
1
 

 
अन्योन्यमिथुनाः सर्वे सर्वे सर्वत्र गामिनः ।
 

 
रजसो मिथुनं सत्त्वं सत्त्वस्य मिथुनं रजः ॥

तमसश्चापि मिथुने ते सत्त्वरजसी उभे ।

उभयोः सत्त्वतमसोः मिथुनं तम उच्यते ॥

नैषामादिः संप्रयोगो वियोगो वोपलभ्यते ॥ इति ।

( देवी भागवतम् ३-८)
 

 
अपवर्गः, अपवर्ग - द्वयोः प्रकृतिपुरुषयोरेकतरस्यात्मनो वा औदासीन्यमपवर्गः । प्रकृते-

रौदासीन्यं विवेकिनं प्रत्यप्रवर्तनम् । पुरुषस्यौदासीन्यं प्रकृत्यनभिष्वङ्गः ।

( द्र० सां० सू० अनि० वृ० अ० ३ सू० ६५ ) ।
 

 
अपौरुषेयत्वम्, अपौरुषेयत्व —–दृष्टं वस्तु मवेददृष्टं वा, यस्मिन् वस्तुनि कृतमिति बुद्धि-

रुपजायते तत् पौरुपेयम् । न तु पुरुषोच्चरितत्वं पौरुषेयत्वमितिसांख्यामि-

मतम् । तथा सति वेदानामपि आदिपुरुषोच्चरितत्वेन पौरुषेयत्वापत्तिः

स्यात् । ( द्र० सां० प्र० मा० अ० ५ सू० ५० ) ।
 

 
अबाह्यप्रत्यक्षम्, अबाह्यप्रत्यक्ष – ऐन्द्रियक प्रत्यक्षभिन्नं प्रत्यक्षम् ।

अभिचेष्टा, अभिचेष्टा - सर्वो व्यापारः ।
 

 
अभिनिवेशः, अभिनिवेश—मरणादित्रासः, मा न भूवम् भूयासमित्येवरूपः ।
 

 
अभिमानः, अभिमान— बुद्ध्युपादानकोऽहङ्कारः । अन्तःकरणरूपो द्रव्यविशेष इति विज्ञान-

भिक्षुः । तदुक्तम् – अन्तःकरणमेकमेव बीजाङ्कुरमहावृक्षादिवत् अवस्थात्रय-

मात्रभेदात् कार्यकारणभावमापद्यत इति । अत एव "मनोमहान् मतिर्ब्रह्मा

पूर्बुद्धिः ख्यातिरीश्वरः" इत्यत्र मनोबुद्ध्यो रेकपर्यायत्वमुक्तम् ।
 

 
अभिव्यक्तिः, अभिव्यक्ति - कारणे सतां घटपटादीनां ततः प्रादुर्भावो, यथा तिलेषु सतस्तै-

लस्याविर्भावः ।