This page has not been fully proofread.

सांख्यकोश:
 

 
P
 

 
व्याप्यम् येन प्रतिवद्धं तद्व्याकपम् । लिङ्गिपदमत्र द्विरावर्तनीयं, तेन

च लिङ्गमस्यास्तीति पक्षधर्मंताज्ञानमपि दर्शितं भवति तथा च व्याप्यव्यापक-

मावपक्षघर्मंताज्ञानपूर्वकमनुमानमितिवाचस्पतिमिश्राः । ( द्र० सां० त०

को०, का० ५ ) । गोडपादाचार्यास्तु लिङ्गपूर्वकं तदनुमानं यत्र

लिङ्गेन लिङ्गी अनुमीयते, यथा दण्डेन यतिः । लिङ्गिपूर्वकच, यत्र लिङ्गिना

लिङ्गमनुमीयते यथा दृष्ट्वा यतिमस्येदं त्रिदण्डमिति । ( द्र० गौ० पा०

मा०, सां० का० ५ ) । लिङ्गज्ञानाज्जायमाना साध्यविशिष्टपक्षाकाराऽन्तः-

करणवृत्तिरिति भावागणेशः ।
 

 
अनुमितिः, अनुमिति - अनुमानजन्या या प्रमितिः पौरुपयो बोध इति यावत्, सा

अनुमितिः ।
 

 
अन्तःकरणम् , अन्तःकरण – बुद्धिरहङ्कारो मनश्चेति त्रयमप्यन्तःकरणम् ।
 

 
अन्यथाख्यातिः, अन्यथाख्याति— अन्यद्वस्तु अन्यरूपेण भासते, इयमेवान्यथाख्यातिः । सापि

सांख्यंनभ्युपेयते, स्ववचोव्याघातदोषात् । यतो हि शुक्तौ भासमानं

रजतमन्यथाशब्देनोच्यते, तच्च रजतं नरशृङ्गतुल्तयाऽसदस्ति । तथा च

असच्च भासते चेति स्ववचोव्याघातः स्यात् । अतो नान्यथाख्यातिरपि

स्वीकारार्हां ॥ द्र० सां० प्र० भा० अ० ५ सू० ५५ ) ।
 

 
अन्योन्यजननवृत्तयः, अन्योन्यजननवृत्ति—गुणाः परस्परं जनयन्ति परिणमयन्तीति यावत् । स

चात्र गुणानां परिणाम: सहरारूपः ।
 

 
अन्योन्यमिथुनवृत्तयः, अन्योन्यमिथुनवृत्ति→ अन्योन्यसहचरा गुणाः भवन्ति, अविनाभाववृत्तय
 

 
इति यावत् ।
 

 
अन्योन्याभिभववृत्तयः, अन्योन्याभिभववृत्ति—गुणा हि प्रयोजनवशात् स्वयमुद्भूय परस्परमभिभ-

वन्ति । अतएवोद्भूतं सत्त्वं रजस्तमसी अभिभूय शान्तां वृत्ति प्राप्नोति ।

एवं रजः सत्त्वतमसी अभिभूय घोराम् तमश्च सत्त्वरजसी अभिभूय निजां

मूढां वृत्ति प्रतिलभते ।