2023-03-12 05:50:34 by ambuda-bot
This page has not been fully proofread.
सांख्यकोश:
P
व्याप्यम् येन प्रतिवद्धं तद्व्याकपम् । लिङ्गिपदमत्र द्विरावर्तनीयं, तेन
च लिङ्गमस्यास्तीति पक्षधर्मंताज्ञानमपि दर्शितं भवति तथा च व्याप्यव्यापक-
मावपक्षघर्मंताज्ञानपूर्वकमनुमानमितिवाचस्पतिमिश्राः । ( द्र० सां० त०
को०, का० ५ ) । गोडपादाचार्यास्तु लिङ्गपूर्वकं तदनुमानं यत्र
लिङ्गेन लिङ्गी अनुमीयते, यथा दण्डेन यतिः । लिङ्गिपूर्वकच, यत्र लिङ्गिना
लिङ्गमनुमीयते यथा दृष्ट्वा यतिमस्येदं त्रिदण्डमिति । ( द्र० गौ० पा०
मा०, सां० का० ५ ) । लिङ्गज्ञानाज्जायमाना साध्यविशिष्टपक्षाकाराऽन्तः-
करणवृत्तिरिति भावागणेशः ।
अनुमितिः - अनुमानजन्या या प्रमितिः पौरुपयो बोध इति यावत्, सा
अनुमितिः ।
अन्तःकरणम् – बुद्धिरहङ्कारो मनश्चेति त्रयमप्यन्तःकरणम् ।
अन्यथाख्यातिः— अन्यद्वस्तु अन्यरूपेण भासते, इयमेवान्यथाख्यातिः । सापि
सांख्यंनभ्युपेयते, स्ववचोव्याघातदोषात् । यतो हि शुक्तौ भासमानं
रजतमन्यथाशब्देनोच्यते, तच्च रजतं नरशृङ्गतुल्तयाऽसदस्ति । तथा च
असच्च भासते चेति स्ववचोव्याघातः स्यात् । अतो नान्यथाख्यातिरपि
स्वीकारार्हां ॥ द्र० सां० प्र० भा० अ० ५ सू० ५५ ) ।
अन्योन्यजननवृत्तयः—गुणाः परस्परं जनयन्ति परिणमयन्तीति यावत् । स
चात्र गुणानां परिणाम: सहरारूपः ।
अन्योन्यमिथुनवृत्तयः→ अन्योन्यसहचरा गुणाः भवन्ति, अविनाभाववृत्तय
इति यावत् ।
अन्योन्याभिभववृत्तयः—गुणा हि प्रयोजनवशात् स्वयमुद्भूय परस्परमभिभ-
वन्ति । अतएवोद्भूतं सत्त्वं रजस्तमसी अभिभूय शान्तां वृत्ति प्राप्नोति ।
एवं रजः सत्त्वतमसी अभिभूय घोराम् तमश्च सत्त्वरजसी अभिभूय निजां
मूढां वृत्ति प्रतिलभते ।