2023-03-12 05:50:34 by ambuda-bot
This page has not been fully proofread.
सांख्यकोश:
श्रवणमात्रान् मुक्तिसिद्धावपि दार्यार्थं मनननिदिध्यासने अपि विधीयते ।
( द्र० सां० प्र० भा० अ० ६ सू० २२, २३ ) ।
अध्यवसायः – निश्चयाख्या बुद्धिवृत्तिः । सर्वो व्यवहर्ता पूर्वमिन्द्रियैः विषया-
नालोच्य, मनसा मत्वा, अहमत्राधिकृत इत्यहङ्कारेणाभिमत्य कर्तव्यमेतन्मये-
त्यव्यवस्थति, ततश्च प्रवर्तते । तत्र योऽयं कर्तव्यमिति विनिश्चयः,
सोऽव्यवसाय:, बुद्धेरसाधारणो व्यापारः (द्र० सां० त० की० का० २३ ) ।
युक्तिदीपिकायाश्चोक्तम् – कोऽयमध्यवसायः ? गोरेवायं, पुरुष एवायमिति
यः प्रत्ययो निश्चयोऽयंग्रहणं सोऽव्यवसाय इति । अव्यवसायश्च निश्चयाख्य
इति विज्ञानभिक्षुः । ( सां० प्र० भा अ० २ सू० १३ ) ।
अध्यासः - - उपचारः । आरोपः, यथा योद्धृगतौ जयपराजयौ राजन्युपचर्येते तथा
प्रकृतौ वर्तमानं त्वादिकं पुरुपेषूपचर्यंते । अयमेवाध्यासः । यथा वा
शुक्तौ रजतमारोप्य रजतमिति प्रत्ययः ।
अननुष्ठानलक्षणमप्रामाण्यम्- – यस्य वेदार्थस्यानुष्ठानमशक्यं भवति तत्प्रति-
पादके वेदेऽननुष्ठानलक्षणमत्रामाण्यं भवतीति ।
अनादिः - आदिरहितः । स द्विविध:-अखण्डानादि: प्रवाहानादिश्च । अखण्डा-
नादिरात्माः, प्रवाहानादिश्चाविवेकः । ( द्र० सां० प्र० भा० अ० ६
सू. १२ ) ।
अनावृत्तिः - अपवर्गः । "न स पुनरावर्तते" इति श्रुतेः ।
अनिर्वचनीयख्यातिः - सदसद्भ्यां विलक्षणमतएव सत्त्वेन असत्त्वेन वा
निवंचनानर्हम्, तादृशस्य जगतः ख्यातिरनिर्वंचनीयख्यातिः । साऽपि न
सांख्या भिमता, सदसद्भिन्नवस्त्वप्रसिद्धः । दृष्टानुसारेणव कल्पनाया-
औचित्यात् । ( द्र० सां० प्र० मा० ऋ० ५ सू० ५४ ) ।
अनुमानम्- व्याप्य दर्शनाद् व्यापकज्ञानम् ( व्यापकाकाश चित्तवृतिः ) अनु-
मानम् । अथवा लिङ्गलिङ्गिपूर्वकमनुमानम् । लिङ्गं व्याप्यं, लिङ्गि
व्यापकम् । शङ्कितसमारोपितोपाधिनिराकरणेन वस्तुस्वभावप्रतिबद्धं