This page has been fully proofread once and needs a second look.

वृत्त्याख्यपरिणाम विशेषेण झटित्येव सूर्यादिकं प्रत्यपस रेदिति । ( द्र० सां०
प्र० मा० अ० ५ सू० १०५ )
 
अत्यन्तपुरुषार्थः, अत्यन्तपुरुषार्थ
आध्यात्मिकाधिमोतिकाधिदैविकानां त्रिविधदुःखानामास्यन्तिकी निवृत्तिरेवात्यन्तपुरुषार्थः । तथा च सांख्यसूत्रम् - "अथ त्रिविधदुःखात्यन्त निवृत्तिरत्यन्तपुरुषार्थः" ( अ० १ सू० १ )
केवलपुरुषार्थशब्देन तु मोगापवर्गयोरुभयोर्बोधो भवति । तथा च गौडपादा-
चार्या : - पुरुषार्थो द्विविधः शब्दाद्युपलब्धिलक्षणो गुणपुरुषान्तरो लब्धि-
लक्षणश्च । शब्दाद्युपलब्धिर्ब्राह्मादिषु लोकेषु गन्धादिभोगावाप्तिः । गुणपुरु-
षान्तरोपलब्धिर्मोक्ष इति । ( सां० का० मा० ४२ ) ।
 
अथ, अथ
अथेति शब्दोल्लेख: शास्त्रादौ मङ्गलार्थः । यथा "अय त्रिविधदुःखात्य-
न्तनिवृत्तिरत्यन्तपुरुषार्थं: " इत्यत्र । ( सां० द० अ० १ सू० १ ) ।
 
अदृष्टनैरपेक्ष्यम् , अदृष्टनैरपेक्ष्य
अदृष्टं हि बुद्धिकार्यमतोऽहङ्काराद्युत्पत्ती तत् महदादीनां सहायं
भवतु नाम तथापि प्रकृतेः स्वकायंकरणे अदृष्टसहकारिता नास्ति किन्तु
अविवेक एव सहकारी भवतीति । ( द्र० सां० सू० अ० वृ० अ० ३ सू०
६८) ।
 
अद्वैतश्रुत्यविरोध:, अद्वैतश्रुत्यविरोध
सांस्यपद्धत्यनुसारं द्वैतसत्त्वेऽपि अद्वेतश्रुतिविरोधो नास्ति.
रागिणां पुरुषातिरिक्ते वैराग्यायैव क्वचित् श्रुतावद्वैतप्रतिपादनात् । तथा च
सांख्य सूत्रम् – "न श्रुतिविरोधो रागिणां बैराग्याय तत्सिद्धेः " ( अ० ६
सू० ५१ ) ।
 
अधर्मः, अधर्म
रजस्तमआत्मिकाया बुद्धेः कार्यभूतः ।
 
अधिकारिणः, अधिकारिन् -
[:- उत्तममध्यमाधमास्त्रिविधा ज्ञानाधिकारिणः । अर्थात् उत्तमाधि-
कारिणां श्रवणमात्रान्मुक्तिसिद्धिः । मध्यमाधिकारिणां श्रवणमननाभ्यां तथाऽ-
घमाधिकारिणां त्रिभिः श्रवणमनननिदिध्यासनैर्मुक्तिसिद्धिरिति । अतो
मन्दाधिकारदोषादेव विरोचनादीनां श्रवणमात्राच्चित्तविलापनक्षमं ज्ञानं
नोत्पन्नम् । न तु श्रवणस्य ज्ञानजननासामर्थ्य मस्ति । इत्यवोत्तमाधिकारिणः