This page has not been fully proofread.

(
 
८ )
 
आसन्नित्यत्र सर्वेषामैकमत्यमस्ति । सनन्दोऽपि सांख्याचार्य आसीदिति मनुस्मृते:
कुलूकमट्टटीकायामुक्तम् । एतदतिरिक्ताः पुलहपुलस्त्यमरीचिप्रभृतयः प्राचीनाः,
जंगीषव्यवाषंगण्यविन्ध्यवासिप्रभृतयश्च तदपेक्षयाऽर्वाचीना इति प्रायश्चत्वा-
रिशत्संख्याका: सांख्याचार्याः स्मयंन्ते । साङ्ख्याचार्याणां विषये वैशद्येन पृथग्
विचारोऽपेक्षितोऽस्तीति नेह प्रतन्यते ।
 
मार्च, १९७४
 
इत्थञ्च सत्स्वपि नैकेषु सांख्याचार्येषु शास्त्रमिदं न तथा पल्लवान् रामा-
सादयद् यथेतराणि शास्त्राणि । तथापि समुपलब्धग्रन्थसम्पत्त्यापि सांख्यदर्शनस्य
साङ्गोपाङ्गसिद्धान्ताः अस्मद्दृष्टिगोचरतामायान्तीति महान् सन्तोषोऽनुभूयते ।
तान् ग्रन्थानाधृत्यैव मयाऽयं सांख्यकोशो निर्माय विदुषां समक्षमुपस्थाप्यते । अनेन
मदीयप्रयासेन यदि विदुषां सन्तोषो जिज्ञासूनां लाभश्च मवेत्तदाऽऽत्मानं कृतार्थं
मन्ये इति शम् ।
 
केदारनाथ त्रिपाठी
काशी हिन्दू विश्वविद्यालय।
वाराणसी