2023-03-12 05:50:33 by ambuda-bot
This page has not been fully proofread.
( ७ )
किन्तु सूत्रषडध्यायीतत्त्वसमाससूत्रगतवचनानां भूयःसु प्राचीनप्रन्वेषूपलम्भात्
तो सांख्यग्रन्थी रत्रीस्तीय चतुर्दशशत कोद्भूताविति पक्षः सुष्ठु निराक्रियत
उदयवीरशास्त्रिभिः ।
वस्तुतः सप्ततितम ( ७० ) सांख्यकारिकानुसारं महर्षिः कपिलः श्रुत्युदितं
सांख्यतत्त्वमासुरये प्रदत्तवान्, आसुरिरपि पञ्चशिरवाय प्रदत्तवानेव न तु कृतवान्
किमपि ग्रन्थजातम् । यथा हि गुरुः शिष्यान् वेदमुपदिशत्येव त न करोति,
तद्वत् इति प्रतीयते । इत्थं गुरुपरम्परया प्रचलितं सिद्धान्तमवलत्रव्मो केनापि
मांख्याचार्येण प्रथमं तत्त्वाम्नायपरं संक्षपेण तत्त्वसमाससूत्रं व्यरचि दनन्तरव
दर्शनान्तरीय सू त्र ग्रन्थानुक ग्णेन केनाप्यपरेण प्रतिभावताऽऽचाचार्येण सूत्रषडध्यायी
निर्मिताऽभूत् । एतयं रपि सांख्यकारिकानिर्माणत् पूर्व परं वा निर्माणं जात-
मिति जिज्ञासायां माध्यस्थ्यमेवावलम्वते सात्कौरीशास्त्री । एतदनुसारमीश्वर-
कृष्णसमये तयोर्विद्यमानत्वेऽपि ऋषिप्रणीतत्वाभावात् टीकाकर्तॄणां तयोरनादर:
कारिकाणाञ्च सुव्यवस्थितत्वात् तत्र समादरश्चाभूतामित्येव सङ्गतमिति
शास्त्रिणोऽभिप्रायः । किन्तु तत्त्वसमाससूत्रषडध्याय्योरीश्वरकृष्णसमये विद्यमानत्वं
सम्भावयन्तोऽपि सात्कौरीशास्त्रिणः कथं तयोःऋषिप्रणीतत्वाभावं निश्चिन्वन्ति
कथन्तराञ्च कारिकाणामेव सुव्यवस्थितत्वं मन्यन्त इति न वयं विद्मः । अतोऽ
स्मद्विचारानुसारं विषयोऽयमवशिष्यत एवानुसन्धानायेति विभावयामः ।
आसुरिणाऽपि कोऽपि सांख्यग्रन्थो निर्मितो न वेति निर्णेतुं न शक्यते । तद-
नन्तरं तच्छिष्यत्वेन पश्चशिखाचार्यः प्रसिद्धः । तेन सांख्यशास्त्रस्य भूयान् प्रचारो
विहितः । कपिलमहर्षेः पाञ्चभौतिकशरीरे विद्यमान एव पञ्चशिखाचार्यो
जनकसभायामन्यत्र च महतीं प्रतिष्ठां लब्धवानभूत् । तेन निर्मित: सूत्रग्रन्थो न
समग्रतयोपलभ्यते । किन्तु योगभाष्ये तत्प्रणीतानामे कविंशतिसूत्राणामुद्ध रणमुप-
लभ्यते । गौडपादाचार्योऽपि वारिका भाष्ये – सनकश्च सनन्दश्च, तृतीयश्च
सनातनः । आसुरिः कपिलश्चैव बोढुः पञ्चशिखस्तथा ॥ इति ब्रह्मपुत्रान्
स्मति । अत्र सांख्याचायंपरम्परा प्रतिपादितेति वक्तुं न शक्यते, केवलं
ब्रह्म-
सुतत्वेन तेषां निर्देशात् । तेषु च कपिलो बोढुरासुरिः, पञ्च शिखश्च सांख्पाचार्या-