2023-03-12 05:50:33 by ambuda-bot
This page has not been fully proofread.
विरचित इति नवीनानां सिद्धान्तः । गावँमहोदयमतेन षडध्यायी रचनाकाल:
रव्रीस्तीयचतुर्दंशशताब्दी एव । किन्तु डा सुरेन्द्र दासगुप्तमहोदयः पडव्यायो
तावतीमर्वाचोनां न मन्यते ।
वस्तुत: कपिलस्य का कृतिरिति जिज्ञासायाः समाधानं सुकरं न प्रतिभाति ।
ईश्वरकृष्णकारिकाणां द्विसप्ततितमकारिकादर्शनात् तदुपजीव्यग्रन्थस्य षष्टितन्त्र-
मति नामासीदिति प्रतीयते । अतः कपिलकृतमूलग्रन्थ एव षष्टितन्त्रारख्य
आसीत्, स चेदानों लुप्त इत्येके वदन्ति । सांख्यप्रवचन सूत्रापराभिधानाऽद्यत्वे
बहुप्रचलिता सूत्रषंडघ्याय्येव कपिलकृतं षष्टितन्त्रमित्यन्ये । विज्ञानभिक्षुरपि
षडघ्यायीमेव कपिलकृतां मन्यते । ( द्रष्टव्यम् योगवार्तिकम् पा० सू० २४ ) ।
परिमितपदैः सांख्यतत्त्वानां प्रतिपादक: परमतखण्डन वरहितस्तत्त्वसमास एव
कपिलकृतिरित्यपरे ।
पष्टितन्त्रम्
षष्टिपदार्थी
कपिलसिद्धान्तस्य कपिलकृतेर्वा षष्टितन्त्रनाम्नाऽभिहितत्वे तद्गतविचार्यमाण-
विषयाणां षष्टिसंख्याकत्वमेव निदानम् । पष्टिविषयाश्च - पञ्च विपर्यया, नव
तुष्टयः, अष्टौ सिद्धयः, अष्टाविंशतिरशक्तयः, दश मौलिकार्थाश्चेति उदयवीर-
शास्त्री । इदमेव परिगणनं सांख्य तत्त्वकौमुदीकतुंरभिप्रेतम् । तथा च ग्रन्थान्ते
प्रतिपादितं राजवार्तिकोद्धरणद्वाराऽऽचार्यं वाचस्पतिमिश्रेण – 'सेयं
कथिते सकलशस्त्रौथंकथनान्नेदं प्रकरणमपि तु शास्त्रमेवेदमिति सिद्धम् । इति
श्रीमिश्राः संख्यकारिकाणां शास्त्रत्वमङ्गीकुर्वन्ति । साक्षात्कपिलप्रणीते सूत्रग्रन्थे
विराजमाने मिश्रपादसदृशो आस्तिकमूर्धन्यास्तदन्य कर्तृकं ग्रन्थं शास्त्रतयाङ्गीच-
कुरिति नात्र मनः प्रत्ययमासादयति । अतो वाचस्पतिमिश्रसमयात् पूर्वमेव
कपिलनिर्मितो मूलग्रन्थो लुप्तोऽभवदिति निश्चिन्वन्ति सात्कीरीमहाशयाः
सांख्य संग्रह प्रस्तावनायाम् ।
एवं सूत्रषडघ्याय्याः केषुचित् सूत्रेषु अनन्तरकालरचितसूत्राणां खण्डनं
दृश्यते । अतोऽप्यर्वाचीना षडघ्यायी । विशेषतः सूत्रषडध्यायी उत्तरकालवति-
वेदान्तसिद्धान्तप्रभावं प्रकटयतीति गावँमतं विशेषावधानयोग्यतामासादयति ।