This page has not been fully proofread.

( ५ )
 
कुत्रचित् समुद्रकूल एवानुसन्धेयः । तत्र च भस्मीभूतानां सगरपुत्राणामुद्धारार्थं
सगरवंशीयेन भगीरथेन स्वपोबलेन भगवती मागीरथी घरातलं समानीता तान्
पुत्रानुद्धृत्य तत्रैव समुद्र विवेश । गङ्गायाः समुद्रप्रवेशश्च कपिलाश्रमसन्निधौ
यत्र सगरपुत्रा भस्मीभूतास्तत्रैव जात इत्यपि संगतमेवास्ति । अतो गङ्गासागर-
सङ्गमे कपिलमुनिराश्रमं निर्मायोवासेति नेतिहासविरुद्धम् । स च सङ्गमो
बङ्गप्रान्ते कालिकात्तातश्चत्वारिंशे क्रोशे वर्तते । अतो महर्षिकपिलो हिमवत्प्र-
देशवर्तिनि बिन्दुसरःसन्निकर्षे जन्म लब्ध्वा कपिलधास्तुसमीपे कञ्चित् काल-
मुपित्वाऽन्ते गङ्गासागरसङ्गमवर्तिनि आश्रमे उवासेति निष्कर्षः ।
 
महर्षिकपिलसमयः
 
महर्ष: कपिलस्य निश्चयेन कालनिरूपणं दुष्करम् । तन्निश्चयस्योप-
निषन्महाभारतादिकालनिर्णयाधीनत्वात् । तेषामपि कालविषयेऽद्यापि ऐतिहा-
सिकानां परस्परं भृशं मतानैकग्मेवास्ति । डा० श्राद्या प्रसाद मिश्रम होदयेन सुष्ठु
निरूपितं यत् शतपथब्राह्मणसङ्कलनादपि पूर्व महर्षिः कपिल आविर्बभूवेति ।
अतः कपिलाविर्भावकालो न्यूनता पञ्चसहस्रवर्षेभ्यः पूर्वमेवासीत्, न तु कथमपि
ततोऽवांचीन इति ।
 
कपिलस्य कृतिः
 
यथा न्यायादिदर्शनानां सूत्राणि गौतमादिकृतानि तथा सांख्यस्यापि दर्शनत्वेन
तस्यापि सूत्रकारेण माव्यम् इति विदुषामनुमानं सवंथा समोचीनमेव ! तत्र
द्रौ सूत्रग्रन्थो सांख्यस्य वर्तते । किन्त्विदानीन्तना विद्वान्स उभयोरप्यर्वाचीनत्वं
मन्यन्ते । सांख्यकारिकामेवेश्वरकृष्णकृतां प्राचीनतमां मन्यन्ते । तस्याः कापि
टीकाऽऽसीत् यस्याष्टीकायाश्चोनभाषायामनुवादः परमार्थनाम्ना उज्जयिनीवास्तव्येन
बौद्ध भिक्षुणा स्त्रीस्तीयषष्ठशताब्दया: पश्चिमे भागे कृतः । 'ईश्वरकृष्णादिसांख्य-
ग्रन्थकर्तॄणां ग्रन्थेभ्योऽपि षडध्याय्याः कोऽपि परिचयो न लभ्यते । शङ्कराचार्ये-
णापि कारिकैवोद्धृता शारीरकभाष्ये । यद्युभौ सूत्रग्रन्थो कपिलप्रणीतौ तदा
मनीषिभिस्तदुपेक्षायाः किमपि कारणं न प्रतीयते । तस्मात् षडघ्यायी रव्रोस्तीय-
नवम शताब्या अनन्तरमर्थात् वाचस्पतिमिश्रादनन्तरं, तत्त्वसमासश्च ततोऽप्यूर्ध्वं