This page has not been fully proofread.

( ४ )
 
कपिलस्य च तस्यर्षेस्तस्मिन्नाश्रमवास्तुनि ।
यस्मात्ते तत्परं चक्रुस्तस्मात् कपिलवास्तु तत् ॥
( सर्ग: १२ श्लो० ५७ ) ।
 
इदं हि मतं सम्यक् प्रतिभाति ।
 
श्रीमद्भागवतादिप्रामाण्यात् सरस्वत्यास्तीरे विन्दुसर: समीपवर्तिनि कस्मि-
श्चिदाश्रमे महर्षिकपिल: कर्दमदेवहूत्योः पुत्ररूपेण जनिमलभत । तदाश्रम -
स्थानश्च महाभारतरामायणादीननुसृत्य हिमालयमध्ये इदानीं मानसरोवरनाम्ना
प्रसिद्धात् सरोवरात् पश्चिमदिशि कुत्रचिदासीदिति निरूपितं प्रतीथते । तेन
निरूपणेन कपिलवास्तुनगरस्य कपिलमहर्षिसम्पर्को न निराक्रियत इति तर्कयन्ति
विद्वान्सः । अतो विन्दुसर: समीपस्थ आश्रमे जनिमासाद्यापि महर्षिः कियन्तं कालं
कपिलवस्तुसन्निहिते प्रदेशे आश्रमं निर्मायोवासेत्यत्र नास्ति किमप्यसामञ्जस्यम् ।
 
बौद्धमतस्य प्रादुर्भावक्षेत्रे सांख्यदर्शनस्य महीयान् प्रभाव आसीदिति
गार्वेमहाशयस्यानुमानम् । डा० कीथमहोदयस्तु उभयोरप्युपनिषन्मूलत्वं प्रति-
पादयन् बौद्धधर्मस्य मांख्याधमण्यं निराकरोति । किन्तु एवं स्वीकारेऽपि भारत-
वर्षस्य पूर्वप्रान्ते बुद्धसमये सांख्य प्रभावसंभावना न निराकर्तुं शक्यते । गौतमो
गृहादमिनिष्क्रम्य प्रथममेव धर्मलाभार्थं कालायसगोत्रीयमण्डनामानं कन्चित्त-
पस्विनं गुरु चकारेति बुद्धचरितादवगम्यते । अयमण्डः कपिलमतानुसारी
आसीत् । तथा च तद्वचनम् -
 
तत्र तु प्रकृतिं नाम विद्धि प्रकृतिकोविदः ।
 
पञ्चभूतान्यहङ्कारं बुद्धिमव्यक्तमेव च ॥ इति ।
 
अण्डगौतमवृत्तान्तो न केवलमश्वघोषेणैवेददम्प्रथमतया वर्णितः किन्तु स्थविर
वादिशास्त्रेऽपि अण्ड: 'आलारकालाम' इति नामधेयेनोपलभ्यते । तस्माद् बुद्ध-
प्रादुर्भावकाले कपिलवास्तुसन्निहिते प्रदेशे सांख्यदर्शनस्य भूयान् प्रचार आसी-
दिति नात्र संशयलेशोऽपि ।
 
इत्थं कपिलवास्तुसन्निहित प्रदेशे कश्चित् कालं स्थित्वा पुनः रामायणमहा-
भारतानुसारं सगरर जिस्य षष्टिसहस्रं पुत्रान् यत्र भस्मीचकार स कपिलाश्रमः