This page has not been fully proofread.

( ३ )
 
'समस्ततत्त्वानां सकलषष्टितन्त्रार्थानाञ्च
 
सूचकं षडघ्याय्या अपि बोजभूतं
तत्त्वसमाससूत्रं नारायणावतारमहर्षिकपिलप्रणीतम् । षडघ्यायो तु वैश्वानरा
वतारभूत महर्षिभगवत्कपिलप्रणोतेति वृद्धाः" इत्याह सर्वोपकारिणीवृत्तिकारः
अत्र 'वृद्धाः' इति कथनेन स्वपूर्वतनाचायं सम्मतिमपि स प्रदर्शयति ।
 
1
 
किन्त्वेतत् कपिल द्वैविध्यत्रैविध्यकथनं भ्रम एवेति श्रीमदुदयवीरशास्त्रिणा
संसाधितमेकत्वञ्च स्थिगेकृतम् । ( सांख्यदर्शनका इतिहास पृ० ८-१२ ) । एत-
दनुसारं महाभारतमतेनापि सांख्यप्रवर्तकः कपिलो विष्णोरवतार एव किन्तु स
क्रोधाग्निना सगरपुत्रान् भस्मोचकारेति तस्याग्नित्वं प्रसिद्धमभूत् इति । सांख्य-
प्रवचनभाष्यकर्ताऽपि कपिलद्वविध्यं प्रकामं निराकरोति ॥ द्र० सां० प्र० मा०
अ० ६ सू० ७ ) ।
 
महर्षिकपिलः कुत्र कदाऽऽविर्बभूवेत्यत्रापि मतभेदोऽस्ति । केषांश्चिन्मतेन स
नैतिहासिकः पुरुषोऽस्ति । तत्र च 'आदिविद्वान् निर्माणचित्तमधिष्ठाय कारुण्या
भगवान् परमपिरासुरये जिज्ञासमानाय तन्त्रं प्रोवाच' इति योगभाष्यकारस्योक्ति
प्रमाणतयोपस्थापयन्ति । किन्तु निर्माणचित्ताधिष्ठानं पाञ्चभौतिकशरीरेऽवतोर्णे-
नापि भगवता शक्यमतः कपिलमहर्षेरैतिहासिक पुरुषत्वे न सन्देहावसर इति
सत्कौरीमहाशया अभिप्रयन्ति :
 
कपिलवस्तु (कपिलवत्थु ) नाम नगरं भगवतो बुद्धस्य जन्मस्थानं, तदेव हि
महर्षेः कपिलस्यापि जन्मस्थानमिति जनरलर्कानिघममहोदयाः । गार्वेमहोदया
अपि तथैव मन्यन्ते । बौद्धधर्म: सांख्यदर्शनस्य महानधमर्ण इति स्वनिश्चयेन गावें-
महोदयः स्वमतं द्रढयितुं चेष्टते । तन्मतेन 'कपिलवत्थु' इति पालिशब्दस्य
'कपिलवास्तु' इत्येव संस्कृतरूपान्तरं न तु 'कपिलवस्तु' इति । डा० आद्याप्रसाद -
मिश्रस्तु कपिलवस्तुनाम्ना न महर्षेः कपिलम्य संबन्ध: किन्तु कस्यचित् शाक्य-
वंशीयस्य शूरस्य क्षत्रियस्य पूर्वंजस्य स्यादिति प्रतिपादयन् गार्वेमहोदयस्य खण्डनं
करोति । सुत्तनिपातकथानुसारमश्वघोषस्य सौन्दरानन्दकाव्यानुसारञ्च महर्षेः
कपिलस्य नाम्नैव कपिलवास्तु' इति नामाभूत् इति । यथा-