This page has not been fully proofread.

(
 
२ )
 
-
 
स्मृतिश्च – सांख्यस्य वक्ता कपिलः, परमपिः स उच्यते' । महाभारतम् शान्तिपर्व
३३०।६० । श्रीमद्भागवगतेऽपि महर्षिः कपिल एत्र सांख्यशास्त्रप्रवर्तकत्वेनोक्तः ।
गरुडपुराणेऽपि तथैवोक्तम् । यथा -
 
पञ्चमः कपिलो नाम सिद्धेशः कालविप्लुतम् ।
प्रोवाचासुरये सांख्यं तत्त्वग्रामत्रिनिर्णयम् ॥ ११ । १८
मत्स्यस्कन्द विष्णुपुराणेष्वपि कपिलस्य सांख्यकर्तृत्वम् प्रतिपादितम् । साँख्य
शास्त्रीयग्रन्थका रास्तट्टीकाकाराश्चापि सांख्यशास्त्र प्रवर्तकत्वेन कपिलमेवैकमध्येन
स्मरन्ति । अतिप्राचोनः सांख्यकारिकाकारः कपिलं मुनिपरमर्षिशब्दाभ्यां स्मरति ।
सां० का० ६९-७० ।
 
सच कपिलो ब्रह्मणः पुत्र इति गौडपादचार्या: स्मरन्ति : यथा - इह
भगवान् ब्रह्मसुतः कपिलो नाम इति । ( सां० का .. गौडपादभाष्यम् पृ० १ ) ।
स्वायम्भुवस्य मनोर्दुहितरि देवहूत्यां महर्षेः कर्दमाद् भगवान् विष्णुरेव कपिल-
रूपेणावततारेति श्रीमद्भागवतम् । यथा-
तस्यां बहुतिथे काले भगवान् मधुसूदनः ।
कार्दमं वीर्यमापन्नो जज्ञेऽग्निरिव दारुणि ॥
अयं सिद्धगणाधीशः सांख्याचार्यैः सुसम्मतः ।
लोके कपिल इत्याख्यां गन्ता ते कीर्तिवर्धनः ॥
( ३।२४।६-१९ )
 
तथा-कपिलस्तत्त्व संख्याता भगवानात्ममायया ।
 
जातः स्वयमजः साक्षादात्मप्रज्ञप्तये नृणाम् । ( ३१२५ १ )
क्वचिदग्न्यवतारत्वेनापि स्मर्यते । यथा महाभारते-
कपिलं परमपि यं प्राहुर्यतयः सदा ।
अग्निःस कपिलो नाम सांख्ययोगप्रवर्तकः ॥
( वनपर्व २१११२१ )