साङ्ख्य-योग-कोशः /190
This page has been fully proofread once and needs a second look.
हस्तिवबलादीनि, हस्तिवबलादि
हस्तिबले संयमाद् हस्तिबलो भवति । वैनतेयबले
संयमाद् वैनतेयवलो भवति । वायुबले संयमाद् वायुबलो भवति ।
अर्थात् यस्य बले संयमस्तस्य बलं लभत इति । ( द्र० यो० मा०
त० वै० पा० ३ सु० २४ ) ।
हिरण्यगर्भः, हिरण्यगर्भ
गस्यादिवक्ता हिरण्यगर्भ एव यथा सांख्यस्य कपिलः ।
तदुक्तम् याज्ञवल्क्येन —
"हिरण्यगर्भो योगस्य वक्ता नान्यः पुरातनः" इति ।
हिंसा, हिंसा
केनापि प्रकारेण कदापि कस्यापि भूतस्यामिद्रोहो हिंसा । सा
च स्वयं कृता वा स्यात्, परतः कारिता वा स्यात्, अनुमोदिता वा
स्यात्, लोभक्रोधमोहान्यतमप्रयुक्ता स्यात्, मृदुः, मध्या, अधिमात्रा
वा सर्वविधापि हिंसा परिवर्जनौया दुःखाज्ञानानन्तफलत्वात् । ( द्र०
यो० मा० पा० २ सू० ३०, ३४ )
हेयहेतुः, हेयहेतु
प्रधानपुरुषयोः संयोगो हेयस्य दुःखबहुलसंसारस्य हेतुः ।
( द्र० यो० मा० पा० २ सू० १५ ) ।
हेयम्, हेयम्
हेयम् दुःखमनागतम् । अतीतस्य दुःखस्य नष्टपूर्वत्वाद् वर्तमान-
स्य च दुःखस्य भोगेनैव क्षयादनागतदुःखमेव हेयमिति तद्धानार्थमेव
यत्नः करणीयः । इति शुभम् ।
सारण्यमण्डले पुण्ये ग्रामे विष्णुपुराभिधे ।
जनिखिपाठिनो लब्ध्वा रामादेर्यो विहारिणः ॥
न्यायव्याकरणे श्रीमत्सूर्यनारायणाद्गुरोः ।
वेदान्तं विश्रुताच्छ्रीमद्धरिहरकृपालुतः ॥
श्रुत्वा वादविदग्रणीः स विदितः केदारनाथः कृती,
योगाभीष्टरहस्यमत्र प्रकटीकतु" समीहान्वितः ।
चन्द्राग्न्यभ्रकलोचनैः परिमिते संवत्सरे वैक्रमे,
ज्येष्ठे मासि सिते च कोशममलं पातञ्जलं संव्यधात् ॥
इति श्रीमदाचार्यकेदारनाथ त्रिपाठिप्रणीतो यांगकोशः पूर्णः ।

हेयम्, हेय