This page has not been fully proofread.

प्रस्तावना
 
अथेयं प्रस्तूयते सांख्यकोशो नामाभिनवा कृतिरन्तेवासिगणकल्यागाय विद्वज्ज
नमोदाय चेदानीम् । तत्र यद्यपि विद्यानां चतुर्दशप्रस्थानेषु अष्टादशसु वा परिग
णि तेषु सांख्यशास्त्रस्य साक्षान्नाम न श्रूयते तथापि न्यायस्यानेकात्मप्रतिपादकत्वात्
अनेकात्मप्रतिपादकानि वैशेषिकसांख्ययोगशास्त्राण्यपि 'अङ्गानि वेदाश्चत्वारो
भीमांसा न्यायविस्तरः । पुराणं धर्मशास्त्रञ्च विद्या ह्येताश्चतुर्दश' ॥ इति वचने
न्याय विस्तरपदेन संगृहीतानीति मन्तव्यम् । श्वेताश्वतरोपनिषद भगवद्गीतायाञ्च
बहुधा सांख्यस्य चर्चा समायातीत्यस्य शास्त्रस्यातिप्राचीनत्वं निश्चचम् ।
दर्शनाय शास्त्रं दर्शनशास्त्र मिति व्युत्पत्त्या सर्वाण्येव न्यायादिशास्त्राणि तत्त्व-
ज्ञानात्मकदर्शनरूपाय प्रयोजनाय प्रवृत्तानीति तानि दर्शनशास्त्राणोत्युच्यन्ते ।
दर्शनशब्दप्रयोगस्य च मूलम् – 'सत्यधर्माय दृष्टये, आत्मा वा अरे द्रष्टव्यः,
तस्मिन् दृष्टे परावरे' इत्याद्याः श्रुतयः सन्ति । यच्च द्रष्टव्यं तत् तत्त्वम् श्रात्मै-
वेत्यपि तास्वेव श्रुतिषु सङ्केतितमासाद्यते । अतो वैशद्येन प्राधान्येन प्राथम्यन
चात्मतत्त्वविचाराय प्रवृत्तमिदं प्राचीनतमं सांख्यशास्त्रं भगवद्गीतायामुपनिषत्सु
पुराणादिषु च सर्वमूर्धन्यत्वेन जेगीयमानमास्ते इति सर्वथा समुचितमेव ।
 
सांख्यशब्दो हि गणनार्थकेन ज्ञानार्थकेन वा संख्याशब्देन निष्पन्न इति
विचारे ज्ञानार्थकसंख्या शब्देन सांख्यशब्दो निष्पन्न इत्येव मतं मुख्यमिति प्रतिभाति
माष्य टीका दिकर्तृवचनेभ्यः ।
 
सांख्यशास्त्रप्रवर्तकः
 
महर्षिः कपिल एव सांख्यशास्त्रप्रवर्तकतया श्रुतिस्मृतीतिहासपुराणेषु
प्रसिद्धः । अत्र भारतीय शास्त्र परम्परासु कुत्रापि विप्रतिपत्तिर्नास्ति । श्रुतिस्ता-
वत् – 'ऋषि प्रसुतं कपिलं यस्तम ज्ञानबिभर्ति जायमानं चं पश्येत्' इति ।