This page has been fully proofread once and needs a second look.

वह्नेः । वहनशीलता ( प्रणामिता) वायोः स्वरूपम् । सर्वतोगति -
राकाश: सर्वत्र शब्दोपलब्धिदर्शनात् । ( द्र० यो० मा० त० ३०
पा० ३ सू० ४४ ) ।
 
स्वरूपावस्थानम् , स्वरूपावस्थान
पुरुषस्य हि चैतन्यं स्वरूपम् अनौपापाधिकम् न
तु बुद्धिबोध: शान्तादिरूपः । औपाधिको हि सः, स्फटिकस्येव
स्वभाव स्वच्छधवलस्य जपाकुसुमसन्निधानोपाधिररुणिमा । न
चोपाघिनिवृताबुपहित निवृत्तिः, अतिप्रसङ्गात् । तस्माद् वृत्तिनिरोध-
काले पुरुषस्य स्वरूपेऽनौपाधिकचैतन्ये ऽवस्थानं मवतीति । ( द्र०
त० वै० पा० १ सू० ३ ) ।
विज्ञान भिक्षुराह – यथा जपापाये स्फटिकस्य स्वस्वरूपेऽलोहिते-
ऽवस्थानं तथा वृत्त्यभावे पुरुषस्य वृत्तिप्रतिविम्बशून्ये स्वस्वरूपे-
ऽवस्थानमिति ( द्र० यो० वा० पा • १ सू० ३ ) ।
 
स्वस्वामिभावः, स्वस्वामिभाव
यथाऽयस्कान्तमणिः स्वस्मिन्नेवायः सन्निधीकरण-
मात्रात् शल्यनिष्कर्षणाख्यमुपकारं कुर्वन् स्वामिनः स्वं भवति,
भोगसाधनत्वात्; तथैव चित्तमप्ययः सदृशविषयजातस्य स्वस्मिन्
सन्निधीकरणमात्रात् दृश्यत्वरूपमुपकारं कुर्वत् पुरुषस्य स्वामिनः
स्वं भवति, भोगसाधनत्वात् । अतश्चित्तपुरुषयोरनादिः स्वस्वाभि-
भाव: सम्बन्ध इति । ( द्र० यो० वा० पा० १ सू० ४ ) ।
 
स्वाध्यायः, स्वाध्याय
अभिप्रेतमन्त्रजपादिलक्षणे स्वाध्याये प्रकर्षमापन्ने योगिनः
स्वेष्टदेवतायाः सन्निधानं = प्रत्यक्षं भवतीति भोजवृत्ति: । ( पा० २
सू० ४४ ।
इष्ट मन्त्रादिजपात् (स्वाध्यायात्) स्वेष्टदेवतायाः सम्भाषणादि सिध्यति
इति मणिप्रभा, पा० २ सू० ४४