This page has been fully proofread once and needs a second look.

चितिशक्ते: स्वबुद्धिसंवेदनम् । ( द्र० यो० मा० त० वै० पा० ४
सु० २२ ) ।
विज्ञानभिक्षुस्तु चितिशक्तावेव बुद्धिवृत्तिप्रतिबिम्बं समर्थयन् स्वयम-
प्रतिसङ्क्रमाया अपि चितिशक्तेः स्वप्रतिविम्वितबुद्धिवृत्त्याकारता-
पत्त्यैव स्वबुद्धिसंवेदनं भवतीत्याह । ( द्र० यो० वा० पा० ४
सू० २२ ) ।
 
स्वबोधसङ्क्रान्तिः, स्वबोधसङ्क्रान्ति
शब्दद्वारा आप्तवित्तवतिज्ञानसह शस्म ज्ञानस्य
श्रोतृचित्ते समुत्पादःस्वबोधसङ्क्रान्तिः ।
 
स्वप्नः, स्वप्न
प्रत्यस्तमितवा ह्येन्द्रियवृत्तेर्मनोमात्रेणैव यत्र मोक्तृत्वभात्मनः
स स्वप्न इति भोजवृत्तिः । द्र० यो० सू० पा० १ सू० ३८ ) ।
वाह्यस कलवृत्तिपरित्यागेन चेतसोऽभ्यन्तरवाहिता स्वप्न इति योग-
भञ्जरी । ( पा० १ का० २५ ) ।
 
स्वप्नज्ञानालम्बनम् चित्तम् , स्वप्नज्ञानालम्बनम् चित्त
यदा खलु स्वप्ने विविक्तवनसंनिवेश-
वर्तिनी मुत्कीर्णामिव चन्दमण्डलात् कोमलमृणालशकलानुकारिभि-
रङ्गप्रत्यङ्गैरुपेताम् अभिजातचन्दकान्तमणिमयीम् अतिसुरभिमालती-
मल्लिकामालाहारिणीं मनोहरां भगवतो महेश्वरस्य प्रतिमामा-
राधयन्नेव प्रबुद्ध: प्रसन्नमनास्तदा तामेव स्वप्नज्ञानालम्बनीभूता-
मनुचिन्तयतस्तस्य तदेकाकारमनसस्तत्रैव चित्तं स्थितिपदं लभते
इति । ( द्र० त० वै० पा० १ सु० ३६ ) ।
स्वप्नरूपं ज्ञानं स्वप्न ज्ञानम्, तदालम्बनकं चित्तम् = प्रपञ्चज्ञाने स्वप्न-
दृष्टिमा॑च्चत्तमेव स्वप्नज्ञानालम्बनं चित्तमिति विज्ञानभिक्षुः । इयश्च
दृष्टिः कामदुघत्वादिगुणैर्वाचि घेनुदृष्टिवत् क्षणभङ्गरविषयकत्वादिगुणं-
र्जाग्रज्ञाने स्वप्नदृष्टिरूपा । एतदपि वैराग्यद्वारा चित्तस्थैयँहेतुरिति ।
( द्र० यो० वा० पा० १ सू० ३८ ) ।
 
स्वरूपम् , स्वरूप
भूतानां स्वरूपम् । यथा – मूर्तिः = सांसिद्धिकं काठिन्यम्
भूमेः स्वरूपम् । स्नेहो मज्जापुष्टिबलाघानहेतुः जलस्य । उष्णता