This page has been fully proofread once and needs a second look.

अयमाशयः - सर्वे प्रमाणादयोऽनधिगतमर्थं सामान्यतो विशेषतो
वाऽधिगमयन्ति । स्मृतिस्तु न पूर्वानुभवमर्यादामतिक्रामति । साहि
अनुभवसमानविषया वा स्यात् ततो न्यूनविषया वा स्यात्, न तु
तदधिकविषयेति । तथा च सूत्रम् "अनुभूतविषयाऽसंप्रमोषः स्मृतिः"
इति । ( द्र० त० वै० पा० १ सू० ११ )
"श्रद्धावीर्यस्मृति समाधिप्रज्ञापूर्वक इतरेषाम्" इतिसूत्रघटकं स्मृतिपदं
तु योगान्तरङ्ग साधनभूतस्य ध्यानस्य वाचकम् ।
 
स्मृतिपरिशुद्धिः, स्मृतिपरिशुद्धि
अर्थमात्र निर्मासायां स्वरूपशून्यायामिव निवितर्कायां
समापत्तौ स्मृतिपरिशुद्धिर्हेतुः । स्मृतिपरिशुद्धिश्च शब्दसङ्केतश्रुतानु-
मानज्ञान विकल्पात्मकस्मृतिपरिशुद्धिरेव । परिशुद्धिरत्रापगमः ।
अर्थात् निर्वितर्कायां समापत्ती "अस्यार्थस्यामुकं पदं वाचकम्"
इति शब्दसङ्केतज्ञानरूपो विकल्पो निवर्तते । तथा "पूर्वं श्रुतोऽनुमितो
वाऽयमर्थः" इवि श्रुतज्ञानरूपो विकल्पो अनुमितार्थंज्ञानरूपो विकल्पश्च
निवर्तत इतीयमेव स्मृतिपरिशुद्धिरर्थमात्रनिर्मासायाः निर्वित-
र्कायाः समापत्तेरिति । ( द्र० यो० मा० त० वै० पा० १
सू० ४३ ) ।
अर्थात् तत्रार्थातिरिक्तं न किमपि भासते, ज्ञानस्वरूपमपि न भासते
कीहगिदं ज्ञानमिति ।
 
स्वबुद्धिसंवेदनम् , स्वबुद्धिसंवेदन
यद्यपि चितिशक्तिरपरिणामिनी क्रियाशून्या
चास्ति तथापि चितेः स्वबुद्धिसंवेदनं चितिप्रतिबिम्बाधार तया
चिद्रूपतापत्तौ सत्यां भवति । यथा हि चन्द्रस्य क्रियामन्तरेणापि
सङ्क्रान्तचन्द्र प्रतिबिम्बममलं जलमचलमपि चन्द्रमसं चलमिवावभास-
यति तथा विनापि चितिव्यापारमुपसङ्क्रान्तचितिप्रतिबिम्बं चित्तं
स्वगतया क्रियया चितिशक्ति क्रियावतीमसङ्गतामपि सङ्गतामव-
भासद् निजभोग्यताशवत्या तस्या मोक्तृभावमापादयति । इदमेक