साङ्ख्य-योग-कोशः /186
This page has not been fully proofread.
योगकोशः
१०६
स्फोट:-
:- यथा बीजाङ्ङ्कराद्यनेकावस्थो वृक्षरूपो धर्मी क्रमिकाभ्यस्ताभ्यो
बीजाद्यवस्थाभ्योऽतिरिक्त । पल्लवादिरूपाशेषावस्थया व्यज्यते "अय-
माम्रवृक्षो न वृक्षान्तरम्" इत्येवंरूपेण । स च वृक्षधर्मी वीजादिभ्यो
भिन्नाभिन्नः, भेदाभेदयोरनुभवात् । तथैव गकारीकाराद्यनेकावस्थो
गौरित्यादिरखण्डः स्फोटशब्दः क्रमिकाभ्यो गकाराद्यवस्थाभ्योऽ-
तिरिक्तः श्रानुपूर्वीविशेष विशिष्ट्या विसर्जनोयादिरूपचरमावस्थया
व्यज्यते इदं "गौः" इति पदं न तु "गौर" इतोत्यादिरूपेण ।
तच्च स्फोटपदं गकारादिवर्णेभ्यो भिन्नाभिन्नं, भेदाभेदयोरनुभवात् ।
सच पदाख्यः शब्दोऽर्थस्फुटीकरणात् स्फोट इत्युच्यते । अस्य स्फोट-
शब्दस्य च कारणम् एकप्रयत्नजन्यो ध्वनिविशेष प्रयत्नभेदेन
तूच्चारणे व्यवधाने सत्येकपदव्यवहाराभावात् । अतो गौरित्येक-
पदमिति व्यवहार एव स्फोटे प्रमाणम्, वर्णानामनेकत्वेन तैरेकत्व-
व्यवहारस्याञ्जस्येनानुपपत्ते तथा प्रत्येकवर्णादनुत्पद्यमानस्यार्थ-
।
प्रत्ययस्य हेतुत्वं च स्फोटे प्रमाणम् । यदि चानुपूर्वीविशिष्ट-
समूहस्यैकत्वादेकत्वव्यवहार: तैनैव रूपेणार्थंप्रत्ययहेतुत्वञ्च स्वी-
क्रियते हि संयोगविज्ञेषावच्छिन्नावयवसमूहादेव घटादौ एकत्व-
व्यवहारस्य जलाहरणादेचोपपत्त्या घटाद्यवय विमात्रोच्छेदप्रसङ्गः,
युक्तिसाम्यात् ।
न चैवं युक्तिसाम्याद् वाक्यमपि स्फोटरूपमेकैकं स्याद् इति चेद्
बाघकाभावेन वाक्यस्फोटस्यापीष्टत्वात् । तस्मादस्ति स्फोट इति
पातञ्जलमतम् । (द्र० यो० वा० पा० ३ सू० १७ ) ।
विस्तरस्तुक्त सूत्रीयतत्त्व वैशारदीतोऽवगन्तव्य ।
स्मृतिः -प्रमाणादिभिरनुभूते विषये योऽसंप्रमोषोऽस्तेयं सा स्मृतिःवृत्ति-
विशेषः । संस्कारमात्रजन्यस्य स्मृत्यात्मकज्ञानस्य स एव विषय
आत्मीयो, यो हि संस्कारजनकस्य पूर्वांनुभवस्य विषयभूतः पूर्वानुभव-
विषयातिरिक्तविषयपरिग्रहस्तु सम्प्रमोषः स्तेयं स्यात् ।