This page has been fully proofread once and needs a second look.

स्वगुणैः सर्वमिदमुपार्जितमायुष्मता प्रतिपद्यताम् इदमक्षयमजरम-
मरस्थानं देवानां प्रियमिति ।"
एवमभिधीयभानः सङ्गदोषान् भावयेत् "धोरेषु संसाराङ्गारेषु
पच्यमानेन मया जननमरणान्धकारे विपरिवर्तमानेन कथञ्चिदासा-
दित: क्लेशतिमिरविनाशी योगप्रदीपः । स खल्वहं लब्धालोकः
कथमनया विषयमृगतृष्णया वञ्चितस्तस्यैव पुनः प्रदीप्तस्य संसारा-
ग्नेरात्मानमिन्धनी कुर्याम्" इति ।
सङ्गमकृत्वा स्मयमपि न कुर्यात्--"एवमहं देवानामपि प्रार्थनीय
सम्पन्न इति ।" ( द्र० यो० मा० पा० ३ सू० ५१ )
 
स्थितिः, स्थिति
वृत्त्याख्यगतिशून्यता चित्तस्य स्थितिः निद्रेति यावत् ।
चित्तस्य सर्वे तामसा गुणाः स्थिती समाविशन्तीति चित्तस्य स्थिति-
शीलत्वं तमःप्रभावात् । ( द्र० यो० वा० पा० १ सू० २ ) ।
 
स्थूलम् , स्थूल
पार्थिवाः, जलोयास्तैजसा, वायवीया, आकाशीयाः शब्द-
स्पर्शरूपरसगन्धा यथासंभवं विशेषाः षङ्जगान्धारादयः, शीतोष्णा-
दयः, नीलपीतादयः, कषायमधुरादयः सुरम्यादयः । एते हि नाम-
रूप- प्रयोजनैः परस्पतो भिद्यन्ते इति हेतोः विशेषाः कथ्यन्ते ।
एतेषां पञ्च पृथिव्यां सन्ति । गन्धवर्जं चत्वारोऽप्सु । गन्धरसव
त्रयस्तेजसि । गन्धरसरूपवर्जं द्वौ वायौ । शब्दमात्रमाकाशे । त एते
विशेषा: आकारादिभिः धर्मे: सह विशेषशब्देन परिभाषिता
शास्त्रे इति । ( द्र० यो० मा० त० वै० पा० ३ ० ४४ ) ।
 
स्थैर्यम् , स्थैर्य
जिह्वापा अधस्तात् तन्तुः, ततोऽघस्तात् कण्ठः, ततोऽधस्तात्
कूपः, ततोऽघस्तात् उरसि कूर्माकारा नाडी अस्ति । सैव कुण्डलित-
सर्पवदवस्थिततया कूर्माकार हृदयपुण्डरीकाख्यं नाडीचक्रमुच्यते ।
तत्र कृतसंयमो योगी चित्तस्यैयं लभते इति । ( द्र० यो० मा० यो०
वा० पा० ३ सू० ३१ ) ।