This page has been fully proofread once and needs a second look.

अयं तु एकान्ततोऽवचनीय : प्रश्नः संसारोऽयमन्तवानथानन्त इति ।
विशेषावधारणन्तु संभवत्येव -- यथा कुशलस्यास्ति संसारक्रमपरि-
समाप्तिर्नेतरस्येत्यन्यतरावधारणेऽदोषः ।
अयं भावः -- क्रमेण मोक्षं सर्वेष मोक्षात् संसारोच्छेद इत्यनुमानम् ।
एतच्चानुमानमागमसिद्धमोक्षमाश्रित्यैव प्रवर्तितुमर्हति । तथा च
यो हि मोक्षप्रतिपादकागमस्थ प्रमाणभावमभ्युपगच्छति स कथं
तमेव प्रधानविकारनित्यतायामप्रमाणीकुर्यात् । तस्मादागमबाधित-
विषयमेतदनुमानं न संसारोच्छेदे प्रमाणं स्यात् । श्रूयते हि श्रुति-
स्मृतीतिहासपुराणेषु सर्गप्रतिसर्गपरम्पराया अनादित्वमनन्तत्वं
चेति । अपि च सर्वेषामेवात्मनां संसारस्य न तावद् युगपदुच्छेदः
संभवी । न हि पण्डित रूपाणामपि अनेकजन्मपरम्पराभ्यासपरिश्रम-
साध्या विवेकख्यातिप्रतिष्ठा, किमु वक्तव्यम्, प्राणभृन्मात्रस्य स्थावर-
जङ्गमादेरेकदाऽकस्माद्भवितुमर्हतीति । न च कारणयौगपद्यं युज्यते ।
क्रमेण तु विवेकख्यातौ असंख्येयानां क्रमेण मुक्ती न संसारोच्छेदोऽ-
नन्तत्वाज्जन्तूनामिति । ( द्र० यो० भा० त० ० पा० ४
सू० ३३ ) ।
 
संस्कारशेषा, संस्कारशेषा
चित्तस्य मधुमत्यादिष्ववस्थासु मध्ये चतुर्थी अवस्था
संस्कारशेपाऽसम्प्रज्ञातसमाधिरूपा । परवैराग्यद्वारा सर्वासां वृत्तीनां
निरोधात् संस्कारमात्रशेषतयाऽन्वर्थसंज्ञेयमवस्थेति ।
 
स्थान्युपनिमन्त्रणे सङ्गस्मयाकरणम् , स्थान्युपनिमन्त्रणे सङ्गस्मयाकरण
मधुमतीं भूमि साक्षात्कुर्वत
ऋतम्भरप्रज्ञस्य योगिनः स्थानिनो देवाः सत्त्वविशुद्धिमनुपश्यन्तः
स्थानैरुपनिमन्त्रयन्ते– "भो इहास्यताम्, इह रम्यताम्, कमनीयोऽयं
भोगः, कमनीयेयं कन्या, रसायनमिदं जरामृत्युनिवारकं, वैहायस-
मिदं यानम्, अभी कल्पद्रुमाः, पुण्या मन्दाकिनी, सिद्धा महर्षयः,
उत्तमा अनुकूला अप्सरसः, दिव्ये श्रोत्रचक्षुषी, वज्जोपमः कायः,