This page has been fully proofread once and needs a second look.

योगकोशः
 
१०३
 
त्वात् विलम्बते, तदिदं सोपक्रमं कर्म । ( द्र० यो० मा० त० वै०

पा० ३ सू० २२ ) ।
 

विज्ञानभिक्षुस्त्वाह - यत् कर्मं तीव्रवेगेन फलदातृ, यथा कलि-

कालीनप्रजासु
बाल्य यौवनवार्धकाद्यवस्थानां
 
झटित्ये वारम्भकं
 

भवति, तत्सोपक्रमम् । ( द्र० यो० वा० पा० ३ सू० २२ ) ।

 
संकोचविकासि चित्तम-- म् , संकोचविकासि चित्त
चित्तं हि घटप्रासादप्रदोपकल्पं संकोच-

विकासशालि शरीरपरिमाणाकारमात्रं न विभु नाप्यणु इति केचित्

प्रतिपद्यन्ते । तत्तु योगाचार्याः न मृष्यन्ते । योगमते चित्तन्तु विभु

केवला वृत्तिरेवास्य सङ्कोच विकास शालिनीत्याचार्य: । ( स्वयम्भूः )

( द्र० यो० भा० पा० ४ सू० १० ) ।
 

 
संप्रज्ञातः
, संप्रज्ञात
वितर्कांविचारानन्दास्मितानां स्वरूपैरनुगतश्चित्तवृत्तिनिरोधः

सम्प्रज्ञातसमाधिः । अतएव एतैरनुगतत्वात् सम्प्रज्ञातभेदोऽपि

चतुर्विधो भवति --वितर्कानुगतो, विचारानुगत, आनन्दानुगतोऽ-

स्मितानुगतश्चेति । ( द्र० यो० मा० त० वै० पा० १ सू० १७ ) ।
 

 
संयमः --
, संयम
धारणाध्यानसमाधीनां मिलितानामेका संज्ञा "संयम:"

इत्यस्ति । तथा च योगसूत्रम् -- "त्रयमेकत्र संयमः" । पा० ३

सू० ४ ) ।
 
-
 

 
संवेगः, संवेग
संवेगो वैराग्यमिति वाचस्पतिमिश्राः । उपायानुष्ठाने शैघ्रय-

मिति विज्ञानभिक्षवः । इदमेव मतं योगमञ्जरीकारस्य । संवेग उप-

क्रम इति विवरणकारः । क्रियाहेतुहंढतरः संस्कार इति भोजवृत्तिः ।

मणिप्रभाकाराः वाचस्पतिमिश्रानेवानुसरन्ति संवेगो वैराग्यमिति ।

( द्र० त० वं०, यो० वा०, मो० वृ०, म० प्र० पा० मा० वि०,

पा० १ सू० २१ ) ।
 

 
संसारक्रमसमाप्तेरवचनीयत्वम्- , संसारक्रमसमाप्तेरवचनीयत्व
अस्य संसारस्य क्रमसमाप्तिः कदा-

चिदस्ति न वेति प्रश्ने उत्तरं भवति "अवचनीयमेतत्" इति ।