साङ्ख्य-योग-कोशः /182
This page has not been fully proofread.
१०२
योगकोशः
तस्य भूत-
भूतानां सूक्ष्मं रूपं तन्मात्रपञ्चकं साक्षात्कारणत्वात् ।
तन्मात्रस्य एकोऽवयवकार्यं परमाणुः सोऽपि घटादिवदेव सावयवः,
द्वित्र्यादितन्मात्रकार्यत्वात्, अन्यथा स्थूलत्वानुपपत्तेः । इत्येवं पर-
माणुतोऽपि सूक्ष्मत्वात्, तन्मात्राणि सूक्ष्माणीति वृत्तिकारो नागेशभट्टः ।
परमाणवः तन्मात्रारब्धा इति नागेशभट्टाभिप्राय: ।
वाचस्पतिमतेऽपि परमाणुस्तन्मात्रस्यै वैकोऽवयवः इति यथा परमाणु-
भूतानां सूक्ष्मं रूपं तथा सर्वंतन्मात्राणि भूतानां सूक्ष्म रूपमिति ।
( द्र० यो० भा० त० वै० पा० ३ सू० ४४ ) ।
विज्ञान भिक्षुस्त्वाह
– साक्षात्कारणत्वमेवात्र सूक्ष्मत्वमभिप्रेतम् ।
तस्य भूतस्यैकश्चरमोऽवयवः परमाणुः सोऽपि घटादिवदेव सावयवः,
अन्यथा स्थूलत्वानुपपत्तेः शान्तघोरमूढरूप विशेषानुपपत्तश्चेत्येव-
मित्यतः सर्वंतन्मात्राण्येव भूतकारणानि, अवयवान्तरासंभवात् ।
अतस्तान्येव सूक्ष्मं रूपमिति । ( द्र० यो० वा० पा० ३ सू० ४४) ।
भूतानां सूक्ष्मं रूपं परमाणवस्तेषाञ्च सूक्ष्मं रूपं तन्मात्राणी ति मणि-
प्रभाकारः ।
सूक्ष्मव्यवहितविप्रकृष्टज्ञानम्
– ज्योतिष्मतीनाम्नी बुद्धिपुरुषान्यता-
साक्षात्काररूपिणीय । मनसःप्रवृत्तिरुच्यते, तस्या य आलोक:
अर्थात् तत्कालीनो यः सत्त्वप्रकाशस्तं प्रकाशं योगी सूक्ष्माद्यर्थेषु
विन्यस्य साक्षात्करोति तदर्थं संयमं नापेक्षते । अर्थात् चक्षुर्न्यास-
मात्रेण घटादिदर्शनवत् शुद्धसत्त्वप्रतिसंधानमात्रेणैव सूक्ष्म व्यवहित-
विप्रकृष्टानां परमाण्वादीनां साक्षात्कारो भवतीति । ( द्र० यो० वा०
पा० ३ सू० २५ ) ।
=
सोपक्रमं कर्म – यत् खल्वैकमविकं कर्म जात्यायुर्भोगहेतुः तच्च किश्चित्
कालानपेक्षमेव भोगदानाय प्रस्थितं दत्तबहुभोगम् अल्पावशिष्टफलं.
प्रवृत्तव्यापारं केवलं तत्फलस्य सहसा एकेन शरीरेण मोक्तुमशक्य-