This page has been fully proofread once and needs a second look.

योगकोशः
 
विश्वोदरी कुहुश्चैव शङ्खिनी च यशस्विनी ॥

अलम्बुषा च गान्धारी मुख्यास्त्वेताश्चतुर्दश ।

तासां मुखतमास्तिस्रः तिसृष्वेकोत्तमा मता ।

मुक्तिमार्गेति सा प्रोक्ता सुषुम्ना विश्वधारिणी ॥

कन्दस्य मध्यमे मार्गे सुषुम्ना सुप्रतिष्ठिता ।

पृष्ठवंशस्थितेनास्थना सह मूर्ध्नि व्यवस्थिता ॥

मुक्तिमार्गेति सा प्रोक्ता ब्रह्मरन्ध्रति कीर्तिता ।

अव्यक्ता सैव विज्ञेया सूक्ष्मा च वैष्णवी स्मृता' ॥
 

अस्यास्त्तत्त प्रदेश विशेषावच्छेदेन मुक्तिप्रदत्वात् तत्तत्प्रदेशानामवि-

मुक्तत्वं समाख्यातम्
-
 

" मध्ये नाभिमध्ये च हृदयेऽपि च मूर्धनि ।

तथाविमुक्तमादित्ये वाराणस्यां व्यवस्थितम् ॥
 

 
अत्राविमुक्तशब्दो विमुक्तशब्दपरः । यथा विमुक्तशब्द आधिदैविके

द्यावापृथिव्योः सन्धिरूपे आदित्ये व्यवस्थितः यथा चाधिभौतिके

वाराणसीसंज्ञके पुरे व्यवस्थितः, तथा ऽऽध्यात्मिके भ्रूमध्ये, हृदये,

मूनि च चक्रविशेषावछिन्ने सुषुम्नाप्रदेशे व्यवस्थित इति ।

( द्र० यो० चि० प० २पृ० १०५ - १०६ ) ।
 
""
 

सुषुम्ना, ब्रह्मरन्धं, महापथः श्मशानम्, शाम्भवी, मध्यमार्गश्चेति

पर्यायाः । द्र० ह० यो० प्र० उप० ३ श्लो० ४ ) ।
 

 
सूक्ष्मम् , सूक्ष्म
तन्मात्राणि
 
विशेष विनिर्मुक्तानि तदवयवाश्च परमाणवो

भूतानां सूक्ष्मं रूपमिति विवरणकारः ।