This page has been fully proofread once and needs a second look.

सिद्धदर्शनम् , सिद्धदर्शन
–शिरःकपालेऽन्तरिछद्रं प्रभास्वरं ज्योतिरस्ति, तत्र
संयमे कृते सिद्धानां द्यावापृथिव्यन्तरालसंचारिणां दर्शनं जायते ।
तथा च सूत्रम् – "मुधंज्योतिषि सिद्धदर्शनम्" इति । ( पा० ३
सू० ३२ ) । जत्र मूर्धशब्देन सुषुम्नानाडी लक्ष्यत इति तत्ववैशा-
रदीकारः ।
 
सिद्धिहेतवः, सिद्धिहेतु
सिद्धीनामणिमादिलाभानां हेतवो जन्मीषधिमन्त्रतपः-
समाधयः सन्ति । तथा च योगसूत्रम् - "जन्मौषषिमन्त्रतपः समाधिजाः
सिद्धयः ( पा० ४ सू० १ ) इति ।
 
सुषुम्नानाडी, सुषुम्नानाडी
उदरोरसोर्मंध्येऽष्टदलमधोमुखं पद्मं तिष्ठति, तन्मध्ये
सूर्यमण्डलमुकारो जागरितस्थानम्, तस्योपरि चन्द्रमण्डलमुकारः
स्वप्नस्थानम्, तस्योपरि वह्निमण्डलं मकार: सुषुप्तिस्थानम् ।
तत्र कर्णिकायामूर्ध्वमुखी सूर्यादिमण्डलमध्यगा ब्रह्मनाडी, ततोऽप्यूवं
सुषुम्नानामनाडी, यया वाह्यान्यपि सूर्यादीनि प्रोतानि । साहि
चित्तस्य स्थानम् । (द्र० त० वै० पा० १ सू० ३६ ) ।
सुषुम्नासम्वन्धे योगचिन्तामणौ समुद्धृतम् -
"कन्दस्थानं मनुष्याणां देहमध्यान्नवाङ्गुलम् ।
चतुरङ्गुलविस्तारमायामश्च तथाविधम् ॥
अण्डाकृतिवदाकारं भूषितं तत्त्वगादिभिः ।
कन्दमध्ये स्थिता नाडी सुषुम्नेति प्रकीर्तिता ।
तिष्ठन्ति परितः सर्वाः चक्रेऽस्मिन् नाडीसंज्ञिकाः ॥
नाडीनामपि सर्वासां मुख्या गार्गि ! चतुर्दश ।
इडा च पिङ्गला चैव सुषुम्ना च सरस्वती ॥
वारुणी चैव पुषा (पुष्पा) च हस्तिजीह्ना पयस्विनी ।