This page has been fully proofread once and needs a second look.

साक्षित्वम् , साक्षित्व
करणानपेक्षं साक्षाद् मासकत्वं साक्षित्वम् । अत एव
विषयाणां भानं तदाकारवृत्तिद्वारा भवति, वृत्तिभाने तु वृत्त्यन्तरं
नापेक्ष्यते । अतो वृत्तिः साक्षिमास्येत्युच्यते । अविकारेण द्रष्टृत्वं
साक्षित्वमित्यपि साक्षिलक्षणम् । अतः पुरुषः साक्षी भवति । ( द्र०
यो० वा० पा० १ सू० ७ ) ।
 
सामान्यविशेषसमुदायो द्रव्यम् , सामान्यविशेषसमुदायो द्रव्य
सामान्य विशेषाश्रयो द्रव्यमिति
वैशेषिकाः, तत्पातञ्जला नाङ्गोकुर्वन्ति । यतः सामान्य विशेषा-
श्रयो द्रव्यमित्यातिष्ठमानैस्तैरपि सामान्य विशेषसमुदायोऽनुभूयमानो
नापह्नोतव्यः । न च तदपह्नवे तदाधारो द्रव्यमिति संभवति ।
तस्मात् समुदितौ तावेव द्रव्यं भवतु । न तु ताभ्यां सामान्यविशेषा-
भ्यां तत्समुदायाच्च तदाधारमपरं द्रव्यमुपलभामहे । यथा ग्रावभ्यो
ग्रावसमुदायाच्च तदाधारमपरं पृथग्विधं शिखरं नोपलभामहे ।
तस्मात् समूहो द्रव्यम् । समूहो द्विविधो, युतसिद्धावयवः समूहो
वनं सङ्घ इत्यादिः । तथाऽयुतसिद्धावयवो यथा – शरीरं वृक्षः
परमाणुरिति । तयोरयुतसिद्धावयवभेदानुगतः समूह एव द्रव्यमिति
'पतञ्जलिः । ( द्र॰ यो० मा० त० वै० पा० ३ सू० ४४ )
 
सार्वभौम:, सार्वभौम
चित्तस्य भूमयोऽवस्थाः मधुमती-मधुप्रतीका-विशोका-
संस्कारशेषाः, तासु सर्वासु भूमिषु विदितः चित्तवृत्तिनिवृत्तिलक्षणो
योगः सार्वभौम इत्युच्यते । यद्यपि क्षिप्त, मूढ़ विक्षिप्तमपि चित्तस्य
भूमयः सन्ति तथापि क्षिप्तमूढ़योः सत्यपि परस्परापेक्षया वृत्तिनि-
रो परम्पर्येणापि निःश्रेयसहेतुत्वाभावाद, निरोधस्वरूपोपघात-
'कत्वाच्च योगपक्षावरोत्सारितत्वम् । विक्षिप्ते तु सन्नपि कादाचि-
स्कश्चित्तस्थेमा विक्षेपस्य चित्तचाञ्चल्यस्योपसर्जनीभूत एवेति सोऽपि
नास्ति योगपक्षे । तस्मात् मधुमत्यादिचतुर्मूमिकास्वेव वर्तमानश्चित्त-
वृत्तिनिरोधो योग इति योगस्य सार्वभौमत्वमुक्तम् । ( द्र० यो० मा०
'त० वै० पा० १ सू० १ ) ।