This page has been fully proofread once and needs a second look.

९८
 
योगकोशः
 
वर्तमानानागत ) धर्मत्वेन
 
व्यवस्थितानामक्रमोपारूढं विवेकजं
 

ज्ञानं भवतीति सर्वज्ञातृत्वं जायत इति । ( द्र० यो० मा० त०

वै० पा० ३ सू० ४९ ) ।
 

सर्वात्मनां सर्वेषां बद्धमुक्तपुरुषाणां गुणानां च शान्तादिधर्मविशिष्टानां

चैकदैव ज्ञानं सर्वज्ञातृत्वमिति विज्ञानभिक्षुः । ( द्र० यो० वा० पा०

३ सू० ४९ ) । इयं सिद्धिविशोकेति गीयते योगिजनै ।

 
सर्वज्ञानम्
, सर्वज्ञान
स्वप्रतिभोत्थमनौपदेशिकं संसारतरणोपायत्वात् तारकं

विवेकजज्ञानस्य पूर्वरूपं यथा सूर्योदयस्य पूर्वरूपं प्रभा । तेन प्राति-

मज्ञानेन सर्वं विजानाति योगी । तथाच योगसूत्रम् – प्रातिभाद्वा

सर्वम् इति । ( पा० ३ सू० ३३ ) ।
 

 
सर्वभावाधिष्ठातृत्वम् , सर्वभावाधिष्ठातृत्व
सत्त्वपुरुषान्यतासंयमवतश्चित्तस्य जडप्रकाशा-

त्मकसभावाधिष्ठातृत्वं जायत इति । ( द्र० यो० मा० त० वै०

पा० ३ सू० ४९ ) ।
 

 
सर्वभूत रुतज्ञानम्- , सर्वभूतरुतज्ञान
गौरिति शब्दो, गौरित्यर्थो, गौरितिप्रत्ययः,

इत्थं शब्दार्थप्रत्ययानामितरेवराध्यासाद- संकरः प्रतीयते । किन्तु

तेषां प्रविभागसंयमात् सर्वभूतरुतज्ञानं भवतीति । ( द्र० यो० वा०

पा० ३ सु० १७ ) ।
 
सर्व

 
सर्वं
सर्वात्मकम् , सर्वं सर्वात्मक
जलं हि रसरूपस्पशँशब्दवत् भूमिश्च गन्धरसरूप-

स्पशंशब्दवती, तयोः पारिणामिकं वैश्वरूप्यं वनस्पतिलतागुल्मा-

दिषु मूलफलप्रसवपल्लवादिगतरसादिरूपेण दृष्टम् । सोऽयम् अनेव-

मात्मिकाया भूमेरनीदृशस्य वा जलस्य परिणामो न भवितुमर्हति ।

तथा स्थावराणां पारिणामिकै जङ्गमेषु मनुष्य पशुमृगादिषु रसादि-

वैचित्र्यं दृष्टम् । एवं जङ्गमानां पारिणामिकं स्थावरेषु दृष्टम् ।

रुघिरावसेकात् किल दाडिमीफलानि तालफलप्रमाणानि भवन्ति ।

एवञ्च सर्वं जलभूम्यादिकं सर्वरसाद्यात्मकं सिध्यति । ( द्र० यो०

वा० पा० ३ सु० १४ ) ।