This page has been fully proofread once and needs a second look.

भोगाभावः शुद्धिः । इत्युभयोः शुद्धिसाम्ये कैवल्यं भवति
पुरुषस्येति । ( द्र० यो० मा० पा० ३ सू० ५५ ) ।
 
सत्त्वपुरुपाषान्यताख्यातिः, सत्त्वपुरुपाषान्यताख्याति
बुद्धिसत्त्वमन्यदन्यश्च पुरुष इति या
ख्यातिः = साक्षात्कारः सा सत्त्वपुरुषान्यताख्यातिः ।
 
सविचारा समापत्तिः, सविचारा समापत्ति
भूतसूक्ष्मेषु श्रमिव्यक्तधर्मकेषु देशकाल -
निमित्तानुभवावच्छिन्नेषु या समापत्तिः सा सविचारा समापत्ति-
रित्युच्यते । ( द्र० यो० मा० पा० १ सु० ४४ ) ।
 
सवितर्का समापत्तिः, सवितर्का समापत्ति
गौरितिशब्दो गौरित्यर्थो, गौरिति ज्ञान-
मिति अविभागेन विभक्तानामपि ज्ञानं जायते । विभज्यमानाश्चान्ये
शब्दधर्मा अन्येऽर्थधर्मा: अन्ये ज्ञानधर्मा इत्येतेषां विभक्तः पन्थाः ।
तत्र समापन्नस्य योगिनः समाधिप्रज्ञायां यो गवाद्यर्थः समारूढः,
स यदि शब्दार्थज्ञानविकल्पानुविद्ध उपावर्तते तदा सा संकीर्णा
सवितर्का समापत्तिरुच्यते । ( द्र० यो० भा० पा० १ सू० ४२ ) ।
 
सर्वज्ञः, सर्वज्ञ
बुद्धिसत्त्वावरकत मोऽपगमतारतम्येन यदिदमतीतानागत-
प्रत्युत्पन्नानां प्रत्येकं समुच्चयेन च वर्तमानानामतीन्द्रियाणाम्
ग्राह्यविषयाल्पत्व बहुत्व बहुतरत्व बहुतमत्वैरल्पं बहु बहुतरं बहुतमं
वा ग्रहणं वर्धमानं सद् यस्य निरतिशयं = सर्वातिशयं जायते,
स सर्वज्ञः । अत्र कश्चिद् किञ्चिदेवातीतादि गृह्णाति, कश्चिद्
बहु, कश्चिद् बहुतरं कश्चिद् बहुतम मिति ग्राह्यापेक्षया
ग्रहणस्याल्पत्वं बहुत्वं भवति । तथा च यो हि प्रमेयमात्रं
गृह्णाति स सर्वज्ञः । ( द्र० यो० मा० त० वै० पा० १ सू० २५ ) ।
अत्रानुमानमपि भवति - सर्वज्ञबीजं सातिशयज्ञानं क्वचित् काष्ठा-
प्राप्तं बाघकाभावे सति सातिशयत्वात् परिमाणवत् इति यत्र काष्ठाप्राप्तं
स एव सर्वज्ञः । ( द्र० यो० वा० पा० १ सू० २५ ) ।
 
सर्वज्ञातृत्वम् , सर्वज्ञातृत्व
सत्त्वपुरुषान्यता संयमवतश्चित्तस्य यथा सर्वभावा-
विष्ठातृत्वं तथा सर्वात्मकानां गुणानां शान्तोदिताव्यपदेश्य ( अतीत-