This page has been fully proofread once and needs a second look.

भवति । लोकप्रत्यक्षेणाग्राह्यमपि सूक्ष्मव्यवहितविप्रकृष्टं वस्तु अनया
समाधिप्रज्ञया निर्ग्राह्यमित्यहो माहात्म्यमस्याः । ( ३० यो० मा०
पा० १ सु० ४८-४९ ) ।
 
समानः, समान
अशितपीताहारपरिणतिभेदं रसं तत्र तत्र स्थाने सममनुरूपं
नयन् समानः शरीरोपगृहीतमारुतभेदः । आहृदयादाच नाभेरस्या-
वस्थानमिति वाचस्पतिमिश्रा: । समाननरूप: करणमात्रस्य वृत्ति-
विशेषो हृदयान्नाभिपर्यंन्तदेशे वर्तमान इति विज्ञानभिक्षुः ! ( द्र०
त० वै० तथा यो० वा० पा० ३ सू० ३९ ) ।
 
समानजयः, समानजय
संयमविशेषजात् समानजयात् शारीरस्य तेजस उत्तेजनं
भवति । केचित्तु तेजस उत्तेजनं कृत्वा ज्वलति सतीवत् स्वशरीरं
दहतीत्याहुः । द्रष्टव्यं "समानजयाज्ज्वलनम्" इतिसूत्रमाण्यादिकम् ।
 
समापत्तिभेदाः, समापत्तिभेद
सवितर्का समापत्तिः, निर्वितर्का समापत्तिः, सविचारा
समापत्तिः, निर्विचारा समापत्तिश्चेति सामान्यतः चतस्र:
समापत्तयः । ( द्र० त० व० पा० १ सू० ४२ ) ।
 
समूह: परमाणुः, समूह: परमाणु -
सामान्यविशेषसमुदायो द्रव्यम् । समूह द्विष्ठः-
प्रत्यस्तमितभेदावयवानुगतः - शरीरं वृक्षो यूथं वनमिति । शब्देनो-
पात्तभेदावयवानुगतः - उभये देवमनुष्या इत्यत्र समुहस्य देवा एको
भागो मनुष्याश्च द्वितीयो भागः । पुनश्च स समूहः द्विविधः युत-
सिद्धावयवोऽयुतसिद्धावयवश्चेति । तत्र युतसिद्धावयवः समूहो वनं
सङ्घ इति । अयुतसिद्धावयवः समूहः शरीरं वृक्षः परमाणुरिति ।
एतावता भाष्यप्रबन्धेन परमाणुरपि सावयवः समूहरूप इति सिद्धान्त
आयाति । ( द्र० यो० मा० पा० ३ सू० ४४ ) ।
 
सत्त्वपुरुषयोः शुद्धिसाम्यम् , सत्त्वपुरुषयोः शुद्धिसाम्य
यदा निर्धूतरजस्तमोमलं बुद्धि-
सत्त्वं पुरुषस्यान्यताप्रतीतिमात्राधिकारं दग्धक्लेशबीजं भवति,
तदा पुरुषस्य शुद्धिसांरूप्यमिवापन्नं भवति तदा पुरुषस्योपचरित