This page has been fully proofread once and needs a second look.

सबीज: समाधिः, सबीज: समाधि
सवितर्का, निर्वितर्का, सविचारा, निर्विचारा
चेति चतस्रः समापत्तयो ग्राह्यविषयाः सबीजः समाधिः । एवं
ग्रहीतृग्रहणविषयाः अपि सविकल्पाविकल्पभेदेन सानन्दा, आनन्द-
मात्रा, सास्मिता, अस्मितामात्रा चेति चतस्रः समापत्तयः सबीज एव
समाधिरित्यष्टौ समापत्तयः संप्रज्ञातयोगनामा सवोजसमाधिरिति ।
( द्र० यो० भा० त० वै० पा० १ सू० ४६ ) ।
विज्ञानभिक्षुस्तु - अवान्तरभेदेन सवितर्कांनिर्वितर्करूपतो द्विधा
भिन्नोऽपि स्थूलेऽर्थे एक एव समाधिस्तथाऽवान्तरभेदेन सविचार-
निर्विचाररूपतो द्विधा भिन्नोऽपि सूक्ष्मेऽर्थे एक एव समाधिरिति
मिलित्वा द्वौ । पुनश्च आनन्दानुगताऽस्मितानुगती च द्वौ सम्प्रज्ञात-
समाधी मिलित्वा एता एव चतस्रः समापत्तयः सबीजसमाधि-
रित्याह । ( द्र० यो वा० पा० १ सू० ४६ ) ।
 
समाधिः, समाधि
समाधिशब्दः सम्प्रज्ञातासम्प्रज्ञातरूपाङ्गिभूतयोगवाचकः, तथा
यमनियमाद्यष्टान्तर्गंतो योगाङ्गवाचकश्च । तत्राङ्गिभूतयोगस्वरूप-
समाधेर्लक्षणं "योगश्चित्तवृत्तिनिरोधः" इति सूत्रोक्तम् । योगाङ्ग-
रूपसमाधेर्लक्षणञ्च "तदेवार्थमात्रं स्वरूपशून्यमिव समाधि।" इति
निर्भासं सूत्रोक्तम् ।
 
समाधिपरिणामः, समाधिपरिणाम
सर्वार्थता - विक्षिप्तता चित्तस्य धमंः । एव-
मेकाग्रताऽपि चित्तस्य धर्मः । तथा च समाधी सर्वार्थतायाः तिरो-
भाव एकाग्रतायाश्चाविर्भावो भवति । तयोद्वयोरपि धर्मंयोः चित्तं
धर्मरूपेणानुगतं भवति । इत्थञ्च सर्वार्थतकाग्रतयोस्तिरोभावाविर्भावौ
एव चित्तस्य समाधिरूपः परिणाम इति । ( द्र० यो० मा० त०
बै० पा० ३ सू० ११ )।
 
समाधि प्रज्ञा, समाधि प्रज्ञा
सबीजसमाषौ जायमाना या प्रज्ञा सैव समाधि-
प्रज्ञेयुच्यते । इयमेव ऋतम्भरा प्रज्ञा । इयं प्रज्ञा विशेष विषयिणो
भवति, अतएव श्रुतानुमानप्रज्ञयोविषयाभ्यामस्या अन्य एव विषयो