This page has been fully proofread once and needs a second look.

श्रद्धा, श्रद्धा
आगमानुमानाचार्योपदेशसमधिगततत्त्वविषयकः चेतसः सम्प्र
सादोऽभिरुचिरतोच्छा श्रद्धा । साहि जननीव कल्याणी योगिनं
पाति विमार्गपातोत्पन्नादनर्थात् । ( द्र० यो० मा० त० वै०
पा० १ सू० २० ) । संप्रसाद: प्रीतिर्योगो में भूयादित्यभिलापः
श्रद्धेति विज्ञानभिक्षु ।
 
श्रोत्राकाशयो: सम्बन्धसंयमः, श्रोत्राकाशयो: सम्बन्धसंयम
आहङ्कारिकारणामपि सर्वश्रोत्राणा-
माकाशं = कर्णशष्कुलीविवरं प्रतिष्ठा, अतस्तदायतनं श्रोत्रं तदुप-
कारापकाराभ्यां श्रोत्रस्योपकारापकारदर्शनात् । तच्चेदं श्रोत्रमाह-
ङ्कारिकमयः प्रतिमम् अयस्कान्तमणिकल्पेन वक्तृमुखसमुत्पन्नेन वक्त्रस्थ -
शब्देनाकृष्टं स्ववृत्तिपरम्परया वक्तृवक्रमागत्य शब्दमालोचयतीति
योगदर्शन प्रक्रिया । अत्र श्रीत्राकाशयोराधाराधेयभावः सम्बन्धस्तत्र
संयमेन योगिनो दिव्यं श्रोत्रं प्रवर्तते तेन च युगपत् सूक्ष्मव्यवहित-
विप्रकृष्टशब्द ग्रहणसमर्थं भवति । । ( द्र० यो० मा त० वै० पा०
३ मू० ४१ ) ।
 
श्वासः, श्वास
बाह्यस्य वायोराचमनं श्वासः ।
 
षट्कर्माणि, षट्कर्मन्
धौतिवस्तिस्तथा नेतिस्त्राटकं नौलिकं तथा ।
कपालभातिश्चैतानि षट्कर्माणि प्रचक्षते ॥
( द्र० ह० यो० प्र० उप० २ श्लो० २२ ) ।
एतेषां लक्षणानि तत एवानुसन्धेयानि ।