This page has been fully proofread once and needs a second look.

केचित् । तत्र पक्ष्यमाणेभ्यः पक्वानां व्यतिरेकेणावधारणं व्यतिरेक-
संज्ञा वैराग्यम् । ( द्र० यो० भा० त० वं० पा० १ सू० १५ ) ।

व्यवसायस्य संस्कारजनकत्वम् , व्यवसायस्य संस्कारजनकत्व
"ग्राह्योपरक्तः प्रत्ययो ग्राह्य-
ग्रहणोभयाकारनिर्भासस्तज्जातीथकं संस्कारमारभते । स संस्कारः
स्वव्यञ्जकाञ्जनस्तदाकारामेव ग्राह्यग्रहणोभयात्मिकां स्मृति जन-
यति" इति भाष्यानुसारम् – "घटं जानामि" इत्यनुव्यवसाया-
नन्तरम् जायमाना स्मृति: ग्राह्यग्रहणोमयाकारा जायते ।
यद्यपि व्यवसायोऽपि "अयं घटः" इत्यादिरूपः संस्कारं जनयति
तथापि तादृशसंकारजन्यं यत् ग्रहणाकाररहितम् घटज्ञानं तत्
स्मृतिनं भवति किन्तु अनुभवमध्ये एव तस्य प्रवेशः क्रियते । अत एव
प्रमुध्तत्ताकं पराभिमतं यत् स्मरणं तदनि संस्कारमात्रजन्यत्वेऽपि
व्यवहारानुसारेणानुभवमध्य एव प्रवेश्यते योगमतानुयायिभिः ।
योगप्पुत्रस्थस्मृतिलक्षणे अनुभूतविषयासम्प्रमोषस्य विशेषणविधया
निवेशात् । ( द्र० यो० वा० पा० १ सू० ११ ) ।
 
व्यानः, व्यान
सर्वशरीरव्यापी वायुयन इति मिश्राः । व्यापिवृत्तिको
बलवत् कर्महेतुः करणसामान्यवृत्तिर्व्यान इति विज्ञानभिक्षवः ।
( द्र० त० वै० तथा यो० वा० पा० ३ सू० ३६ ) ।
 
व्युत्थानम् , व्युत्थान
अनिरुद्धवृत्तिता चित्तस्य, वृत्तिनिरोधादन्या चित्तस्या-
बस्था वा व्युत्थानम् ।