साङ्ख्य-योग-कोशः /172
This page has been fully proofread once and needs a second look.
मागगुणाभ्यां तत्त्वान्तरं वृत्तिः सन्वन्धार्थं सर्पतीति । ( द्र० यो०
वा० पा० १ सू० ४ ) ।
वृत्तिनिरोधः, वृत्तिनिरोध
वृत्तिनिरोधो हि चित्तस्य वृत्तिसंस्कारशेषावस्था,
अमावस्याधिकरणावस्थाविशेषमात्ररूपत्वात् । सा चावस्था संस्कार-
मात्र: परिणामधारा, निरोधकाले संस्कारतारतम्यरूपस्यैव चित्त-
परिणामस्य सूत्रभाष्याभ्यां प्रतिपादितत्वात् । (द्र० यो० वा० पा०२
सू० १ ) ।
वृत्तिसारूप्यम् , वृत्तिसारूप्य
व्युत्थानकाले चित्तस्य या वृत्तयः शान्तघोरमूढाः
ता एवा विशिष्ट अभिन्ना वृत्तयः पुरुषस्यापि भवन्तीति व्युत्थान-
दशायां पुरुषे वृत्तिसारूप्य व्यपदिश्यते । सारूप्यमित्यत्र सशब्द
एकपर्यायः । तेन चित्तस्य वृत्तय एव पुरुषस्य वृत्तयो भवन्ति,
न त्वन्याश्चित्तस्य वृत्तयोऽन्याश्च पुरुषस्येति । अयमर्थः - जपा-
कुसुमस्फटिकयोरिव बुद्धिपुरुषयोः सन्निधानादभेदग्र हे बुद्धिवृत्ती ।
समारोप्य "शान्तोऽस्मि, दुःखितोऽस्मि, मूढ़ोऽस्मी" त्यध्यवस्यति ।
यथा दर्पणतले प्रतिबिम्बितं मुखं मलिनमारोप्य शोचति आत्मानं
मलिनोऽस्मीति । द्र० यो० मा० त० वं० पा० १ सू० ४ ) ।
वैदेह्यम् , वैदेह्य
देहरहिता विदेहा: करणेषु लोनाः, तेषां भावो वैदेह्यमिति
वाचस्पतिमिश्राः ( द्र० त वै० पा० १ सू० १५ ) ।
विज्ञान भिक्षुस्तु- स्थूलदेहविरहेऽपि लिङ्गशरीरेणैव येषां देवानां-
भोगस्ते विदेहास्तद्रूपता च वैदेह्यम् । ( द्र० यो० वा० पा० १
सू० १५ ) ।
वैराग्यम् , वैराग्य
–तापत्रयपरीतता विषयाणां दोषः, तत्परिभावनया दृष्टानु-
श्रविकविषयेषु यद्वैतृस्ण्यं तद्वैराग्यम् । तस्य चत्वारो भेदा:-
यतमानसंज्ञा, व्यतिरेकसंज्ञा, एकेन्द्रियसंज्ञा, वशीकारसंज्ञा चेति ।
व्यतिरेकसंज्ञा, व्यतिरेकसंज्ञा
इन्द्रियाणां विषयेषु रागादिकषायाणां परिपाचनाय
आरम्भे प्रयत्ने कृते सति तेषु केचित् कषायाः पक्वाः पच्यन्ते च